________________
( १५० )
श्रीकल्पसूत्रार्थप्रबोधिनी. श्रुत्वा, चोकुप्यमानो वैश्यायनर्षिोशालोपरि तेजोलेश्याममुचत् । तया च दन्दह्यमानं गोशालं भगवाञ्छीतलेश्यया तत्रे । ततस्तापसोऽपि प्रभुं महान्तं विदित्वा स्वापराधं क्षमयन्ननंसीत् । तदनु गोशालः प्रभुमप्राक्षीत्-प्रभो ! अहमेनां विद्यां सिषाधयिष्षामि, अतो भवान् प्रसद्य मां तत्साधनविधि शिक्षयतु । तदभ्यर्थनया प्रभुः पयःपानं विलेशयस्येव तस्य तमशिशिक्षत्-श्रृयताम् , सदैव तत्साधक आतापनां विदधाति, षष्ठं तपश्च कुरुते, मुष्टिमात्रस्विन्नमाषेण चुलुकमात्रोष्णवारिणा च तत्पारणं विधत्ते । अमुना विधिना षण्मासान् आराधयति, तदा सा सिध्यति। अथ भगवान् कूर्मग्रामात् सिद्धार्थपुरमागच्छन्मार्गे तस्मिस्तिलस्तम्बे तिला नोत्पेदिरे इति गोशालेन परीपृच्छयमानः प्रभुराख्यत्-अवश्यं स तिलस्तम्बः फफालैव । तदा गोशालस्तां तिलशम्बां विदार्य सप्ततिलानुत्पन्नान् प्रेक्षाश्चक्रे । तत एव स किलैतन्निरचिनोत्-यदेकस्मिनपि देहे पुनः पुनरुत्पद्यन्ते जीवा इति । स गोशालः प्रभोः पृथग्भूय श्रावस्तीमागत्य, कुम्भकारशालायां स्थित्वा भगवदुक्तविधिना तेजोलेश्यां साधयित्वा, त्यक्तव्रतात्पार्श्वनाथशिष्यादष्टाङ्गनिमित्तशास्त्रमप्यध्यैष्ट। ततोऽतिगर्व वहन् सर्वज्ञोऽस्मीति प्रथयितुं लग्नः । ५६ भगवतः सङ्गमसुरकृतोपसर्ग:-- ___ अथ प्रभुः श्रावस्तीपुरीमागात् , तत्र च प्रावृषि न्यवात्सीत् , कृतवाँश्च विविधानि दुष्कराणि तपांसि (१०) ततो विहरमाणः प्रभुर्बहु म्लेच्छजनाकीर्णा कठिनभूमिमायातः । तत्र प्रथमं पोलासग्रामाद् बहिः पोलासचैत्येऽष्टमभक्तेन रजनीमेकां प्रतिमयाऽतिष्ठत् । तदवसरे सुरनायकः सभासीनः प्रभुमेवं प्राशंसीत्-यदधुना वीरविभोर्मनःक्षोभयितुं
१ तेजोलेश्यासाधनविधिं सिद्धार्थव्यन्तरो गोशालमचकथदिति किरणावल्यां यदभ्यधायि, तत्तु हेयमेव । यतः-भगवतीसूत्राऽऽवश्यकचूर्णिका-हारिभद्रीवृत्ति-हेमचन्द्रकृतवीरचरित्रादिकतिपयग्रन्थेषु भगवानेव तमाख्यदिति स्पष्टमुल्लिलेख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org