________________
षष्ठं व्याख्यानम् ।
५६ वैश्यायनतापसोत्पत्तिर्गोशालस्य तेजोलेश्यासाघनञ्च
ततो विभुः कूर्मग्राममाजगाम, तत्रैको वैश्यायननामा तापसो निवसति । तदुत्पत्तिश्चैवम् - राजगृहचम्पापुरीनगर्योरन्तराले गुर्वराख्यनामा ग्रामोऽस्ति । तत्र कौशम्बीनामा कोऽप्येकः कौटुम्बिको वसति । तत्रैकदोपगुर्ब राख्यग्रामाद् बहिर्नृपान्तरीयञ्चतुरङ्गसैन्यमागात् । तद्भीत्या पौराः कान्दिशीका दश दिशासु प्लायाञ्चक्रिरे । तत्रैकामतित्रस्तां सपुत्रां नश्यन्तीं स्त्रियं दृष्ट्वा चौरा अध्वनि बलादग्रहीषुः । वालं चोपग्राममत्यजन्नितस्ततो भ्राम्यन्तं रुदन्तं तं डिम्भं कौशम्बी कौटुम्बिको निरपत्यत्वादादाय पुत्रीचक्रे । तन्मातरं च चम्पापुर्यां कस्याश्चिद्रूपाजीवाया हस्ते ते चौरा व्यक्रीणन् । सोऽपि शिशुः क्रमेण यौवनमापन्नश्चम्पापुरीं व्यापर्तुमागात् । तत्र पण्यस्त्रीभूतां स्वमातरमज्ञानादभुङ्क्त । ततः प्रतिरात्रं तां भोक्तुमारेभे तमेकदा शिक्षयितुं तन्मार्गे सवत्सा गौर्भूला तत्कुलदेवी तस्थौ । सोऽपि तदालयं गच्छन्मार्गे तिष्ठतो वत्सस्य पुच्छोपरि पादं ददौ । तदा वत्सो गामुवाच - मातः ! एष जनो मल्लाङ्गलोपरि पादं ददानो व्रजति । गौरब्रवीत् वत्स । एतस्य नामापि मा लासीः, यदयं प्रत्यहं स्वजननीं भुञ्जानो मनागपि पापान्न बिभेति; तर्हि त्वां कामान्धीभूतो नाऽपश्यत्तत्र किमाश्चर्यम् ? । तयोर्भाषणं निशम्य स शिशुस्तामप्राक्षीत् । गौरपि प्राक्तनमशेषं वृत्तं नृगिरा तमब्रवीत् । तच्छ्रुत्वा स । वैराग्यात्तापसो जज्ञे, पप्रथे च लोके वैश्यायननाम्ना । स च तरोरधस्तादधोमुखीभूय नीचैर्ज्वलन्तमग्निं सेवमानस्तपस्यति, उदपादि च तस्य तेजोलेश्या ।
"
Jain Education International
( १४६ )
-
तत्रावसरे वीरविभुस्ततोऽन्यत्र व्यहरत्, तदनु गोशालोऽप्यचलत् । तत्र काले वैश्यायनः स्वजटाजूटादधः पतितान् यूकान् पुनर्जटाजूटमध्ये निधान आसीत् । तथा कुर्वाणं तमालोक्य गोशालोऽवदत्-रे ! यूकालयमात्रोऽसि त्वयि मुनितां तु नैव पश्यामि । त्रिवारमीदृगुक्तमुपहासवचः
For Private & Personal Use Only
www.jainelibrary.org