________________
( १४८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
प्रतिमामुखे मेहनं प्रचिप्य तस्थौ, तेन लोका बाढं कुहयित्वा मृतकल्पं ज्ञात्वा तत्यजुः (७) क्रमेण प्रभुरुन्नागसन्निवेशमाययौ, मार्गे चाभिमुखमागच्छन्तौ कौचिद्दन्तुरौ वधूवरौ प्रेक्ष्य मंखलीसूनुरुपहसितवान् । तेन रुष्टास्ते तमत्यर्थमताडयन् अक्षिपँश्च वंशजाल्याम् । ततो विहरमाणः प्रभुरेकदा पुरिमतालनगरमीयिवान् । तत्र नगराद्वहिः शकटमुखोद्याने प्रतिमया तस्थौ । तस्मिन्नगरे वग्गुरनामा श्रेष्ठी निवसति, सुसुभद्राख्या तत्पत्न्यस्ति । तौ च मल्लिनाथप्रसादात्पुत्रं लब्ध्वा तत्रोद्याने नवं भव्यं जिनालयं निर्माप्य तत्प्रतिमाञ्च विधिवत्प्रतिष्ठाप्य नित्यमभ्यचतः । तदवसरे वीरविभोर समायातः शक्रः । प्रभोर्महिमानमेधयितुं तावेवमाख्यत् श्रेष्ठिन् ! यं प्रत्यहं पूजयसि तमधुना युवां दर्शयाम्यत्रागच्छतमित्याभाष्य तत्रानीय प्रभोः क्रमाब्जयोरपीपतत् । तौ दम्पती च वीरविभुमतिभक्त्या संपूज्य मल्लिनाथं पोपूजाञ्चक्रतुः । ततः प्रभुर्गोभूमिं गत्वा राजगृहनगरीमाप । तत्र चतुर्मास्यं तपः कुर्वाणश्चतुरो मासानत्यैत्, अकार्षीच्च बहिः पारणम् ( ८ ), ततो वज्रभूमिमागत्य बहवो विघ्नाः पतन्तीति कृत्वा भगवान् प्रावृट्कालं सकलं तत्रोषितवान्, अनुष्ठितवाँश्च चातुर्मासिकंतपः, विहितवाँश्च बहिः पारणम्, विहृतवाँस्तत्रैव ततः परं मासद्वयं वसतेर्विरहान्नवमञ्चातुर्मासमनियतमकृत ( ९ ), ततो विहृत्य कूर्मग्राममात्रजन्नध्वनि तिलस्तम्बमेकमालोक्य गोशालोऽपृच्छत्-भगवन् ! अस्मिन् स्तम्बे तिलाः फलिष्यन्ति न वा ?, प्रभुजगौ - एतद्गताः सप्तापि जीवा मृत्वा खल्वेकस्यां शम्बायां निष्पत्स्यन्ते तावन्तस्तिलाः । इति श्रुत्वा भगवदुक्तं मुधा जायतामिति धिया तं तिलस्तम्बमुत्पाट्य गोशालः क्वचिदन्यत्राऽक्षिपत्, परन्तु प्रभुवाक्यमलीकं माभूदिति हेतुना शासनदेवता जलमभिवृष्य गोखुरादिना कर्दमप्रदेशे तमतिस्थिरत् ।
Jain Education International
3
For Private & Personal Use Only
www.jainelibrary.org