________________
पष्ठं व्याख्यानम् |
( १४७ )
भगवन्तमुदीक्ष्य हन्त ! जातमपशकुनमितिधिया घनेन निहन्तुं यावदैच्छत्तावच्छक्रः प्रयुक्ताऽवधिको विदित्वा प्रभोः कष्टं, तूर्णमागत्य तेनैव घनेन तमहन् । ततो भगवान् यामाकसन्निवेशमाययौ । तत्रोद्याने तस्थुषः प्रभोर्महिमानं प्रैदिधद् बिभेलकयक्षः । ५५ कटपूतनादेवीकृतोपसर्गः -
ततो विहृत्य शालिशीर्षनगरमागत्य बहिरस्थात्कायोत्सर्गेण प्रभुः । तत्र शिशिरर्त्तो दुःसहतरां शैत्यपीडां सासहाञ्चक्रे । तथाहि — पुरा त्रिपृष्ठवासुदेवभवे परिभूता काचित्स्त्री बहुभवसन्ततिमेत्य कटपूतनाऽऽख्यव्यन्तरी सम्भूता प्राक्तनं वैरं स्मरन्ती प्रभुमवधिना ज्ञात्वा, तापसीरूपं कृत्वा निजजटाभिः प्रभोरुपरि वारिधारां चिरमवर्षत्, प्रचण्डवातमवीवहत् मेघेन जलवृष्टिमप्यचीकरत्प्रान्ते च प्रभुमचलं मत्वा तत्पादयोः पतित्वा निजाऽपराधं क्षमयन्ती तोष्टवाञ्चकार । इतरैः सोदुमशक्यमप्येतत्कृतमतिभीषणमुपसर्ग सासह्यमानस्य षष्ठेन तपसा विशुद्धस्याऽवधूतसञ्चितकर्मणो भगवतस्तदैव लोकावधिज्ञानमुत्पेदे ।
."
ततः परावर्त्तमानो विभुर्भद्रिकानगरीमासाद्य, षष्ठ्यां प्रावृषि तस्थिवाँश्चातुर्मास्यम् । तत्र तपोविविधानभिग्रहाँश्च चर्कराञ्चकार । तत्र षण्मासेभ्यः परस्ताद् गोशाल आगत्याऽमिलत् । तत्र भगवाँश्चतुर्मासपारणं बहिरागत्य व्यधात् (६) । तदनु प्रभुरष्टौ मासान् निरुपसर्गो मगधदेशएव विचचार । तत आलम्भिकानगरीमुपेत्य बहिर्देवकुले सप्तमीं चतुर्मासीं चतुर्मास्यतपोविधानेनाऽतिवाह्य पारयित्वा च कुण्डगसन्निवेशमागत्य, वासुदेव चैत्ये प्रतिमयाऽतिष्ठन्महावीरः । गोशालोऽपि वासुदेवमूर्त्तितः पराङ्मुखीभूय तस्थौ, मुखाधिष्ठान करणादर्चकादयः पादेन यष्ट्यादिना चाऽतिनिहत्य मृतप्रायं कृत्वा मुमुचुः । कृतविहारः प्रभुर्मर्दन ग्राममागत्य बलदेवचैत्ये कायोत्सर्गेण तस्थौ । तत्रापि दुर्धीः स गोशालो बलदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org