________________
(१४६)
श्रीकल्पसूत्रार्थप्रबोधिनी. लोकत गोशालः । लोकास्तथापश्यन्तं गोशालं चौरोऽयमित्यवधार्य भृशमघ्नन् । सोऽपि तदुपरि भृशं कोपाटोपं वितन्वन् भगवन्नाममहिम्ना ससामग्रीकं मण्डपमदीदहत् । ततः प्रभुः कलम्बुकासन्निवेशमैत् । तत्र मेघकालहस्तिनामानौ द्वौ भ्रातरौ स्तः । कालहस्तिना प्रभुरुपद्रुतो मेघेन तूपलक्ष्य बाढं क्षमितः । ततः प्रभुभद्रिकापुरीमेत्य पञ्चमी चतुर्मासीमकरोत् , व्यधाच्च नगराबहिश्चतुर्मासक्षपणपारणम् (५) तत आजगाम भगवाँस्तम्बालग्रामम् । तत्र पार्श्वनाथसान्तानिकनन्दिषेणाचार्यस्य शिष्यैः सह कृतकलहो गोशालः सहोपाश्रयेण मदीयधर्माचार्यमहिम्ना भस्मसाद्भवत्वित्यशपत् । परन्त्वदूषितसंयमाराधनप्रभावेण तच्छापस्तेषां नाऽलगत् । तस्यामेव रजन्यां प्रतिमास्थितो नन्दिषणाचार्य आरक्षकपुत्रेण चौरधिया भल्लास्त्रेण निहतः समुद्भूतावधिज्ञानः स्वरगात् । तदा देवकृतमुद्योतं विलोक्य मुदितङ्गोशालं सिद्धार्थोऽजल्पत्मूर्ख ! स्वर्यातस्य नन्दिषेणाचार्यस्य महोत्सवविधित्सया समागतदेवगणकृतोद्योतोऽस्तीति श्रुत्वा गोशालो वैलक्ष्यमापत् । ततः स्वामी कूपिकसन्निवेशमागतश्चौरिकशक्या लोकैहीतः पार्श्वनाथीयसाध्वीभ्यां संयमपालनाऽसक्तत्वात्तापसीभूताभ्यां विजयाप्रगल्भेतिसंज्ञाभ्याममोचि । तत्र गोशालः प्रभुणा सह विहरणे बाढं क्लिश्ये, अतो मया पृथग्भूय विहर्त्तव्यमित्यवधार्य, स्वामिना पृथगेव विजहार द्वितीयेनाऽध्वना । मार्गे च मिलिता चौराणां पञ्चशती — मातुल मातुल' इत्यालपन्ती गोशालस्कन्धमारुरोह । तद्भारभरेण चेखिद्यमानो धाव धावेति तैः प्रेर्यमाणो गोशालो यदेकाकी विहरस्ततोऽप्यधिकं दुःखमनुभवामीति शु. शोच । अतोऽहं पुनः प्रभुणा सहैव विचरेयं चेद्वरमित्थं निश्चित्य भगवन्तमन्वेष्टुमारेभे । इतश्च प्रभुरपि वैशालीपुरीमागत्य लोहकारशालायां प्रतिमया तस्थिवान् । तच्छालाधिपतिरयस्कारः प्राक् षण्मासान् रुजाआसीत्पश्चाल्लब्धनैरूज्यः शुभवेलायां स्वोपकरणं लात्वा तत्राऽऽगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org