________________
षष्ठं व्याख्यानम् |
( १४५ )
यदद्य पायसमभुञ्जि, तवोक्तमलीकमभूत् । सिद्धार्थोऽवदत्- नहि ! ! नूनं पलमभुङ्कथाः, गोशालो गलान्तरङ्गुलीं दत्त्वा वत्राम, तदा मांसखडानि छर्दने विलोक्य प्रकुपितः पुनस्तत्राऽऽगात् । परन्तु सा तु प्रागेव तच्छापभीत्या द्वारपरावर्त्तनमकृत । तद्दारमनुपलक्ष्य सकलमेतत्पाटकं मदीयधर्माचार्यस्य तपस्तेजोमहिम्ना दह्यतामिति शशाप तदैव भगवन्माहात्म्यगौरवार्थ तत्पाटकं देवो ददाह । ततः प्रभुर्दरिद्रसन्निवेशनागत्य बहिः प्रतिमया तस्थौ । तत्रैव पान्था अग्नि प्रज्वालयामासुः, भगवांस्तु मनागपि नाऽपससार । तेन भगवञ्चरणौ दग्धौ विलोक्य गोशालोऽनश्यत् । ततो मङ्गलग्राममायातो विभुर्वासुदेवसदने प्रतिमया तस्थौ । गोशालो लोचने व्याघुट्य डिम्भान् भापयामास । तेन रुष्टास्तत्पित्रादिजना आगत्य गोशालं निघ्नन्तो मुनिपिशाचोऽयमिति कथयन्तस्तत्यजुः । ततः प्रभुरावर्त्तग्राममागत्य बलदेव वेश्मनि कायोत्सर्गेण तस्थिवान् । तत्रापि गोशाल: शिशुन्मुखसङ्कोचादिना भीषयाञ्चकार, तेन प्रचण्डस्तत्पित्रादयः समागत्य गोशालं ग्रथिलं मत्वा भगवन्तमेव हन्तुमुद्यता अभूवन् तावद्बलदेवमूर्त्तिरेव हलेन हन्तुकामस्तान् न्यवीवरत् । भीतास्ते सर्वे जनाः स्वामिनं प्रणेमुः । ततो विहरमाणः प्रभुः स्वीयप्रभूतक्लिष्टकर्माणि निर्जरयितुं लाटदेशमागच्छत् । तत्रत्या अनार्यलोकाः प्रभुमुपदुद्रुवुः, सर्वं सोढम् भगवता । ततो विहृत्य पूरकलशाभिधानानार्यग्रामं जिगमिषोर्भगवतः पथि द्वौ चौरौ मिमिलतुः । एतौ प्रभुं विलोक्याऽपशकुनशङ्कया खड्गेन हन्तुमधावताम् । तदा प्रयुक्ताऽवधिना सुरनायकस्तत्रागत्य पविना तावहन् ।
"
बह्वपायं सहमानो भगवाँश्चौराकसन्निवेशमागात् । तत्रैकत्र मण्डपे लोकैः पापच्यमानं भोज्यमनेकविधं विलोक्य, भूयो भूयस्तिरोभूय व्य
१९
१ कियत्पुस्तके हन्तुं प्रवृत्तयोस्तयोः पादौ व्यष्टभदित्यलेखि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org