________________
( १४४ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
भ्रमादघानि । तदैवोत्पन्नाऽवधिको मृत्वा स्वर्गं गतः, तन्महिमानं कु· वीणा लेखा उद्योतमकुर्वत । तमुद्वीक्ष्य गोशालोऽवदत्-अहो ! तेषामे गुर्वाक्षेपिणामुपाश्रयो दह्यते । सिद्धार्थो जगौ किं मोदसे, नायमुपाश्रयो दाते, किन्तु मुनिचन्द्रः स्वर्याति तदर्थं सुरकृतः प्रकाशो ज्ञायतामिति विलक्षीभूतो गोशालस्तत्र गत्वा तदन्तेसदस्तिरस्कृतवान् ।
तदनु प्रभुश्चौरानगरी माजगाम । तत्र तावुभौ हेरिको मत्वा प्रथमं गोशालं राजकीयाः पुरुषाः कूपगर्ने क्षित्वा यावत्प्रभुं क्षेप्तुमुद्यतास्तावतत्रोत्पलखसारौ सोमा जयन्ती नाम्न्यौ गृहीतचारित्रं त्यक्त्वा, परित्राजिकीभूते भगवन्तमवलोक्य तावमोचयताम् । ततः प्रभुः पृष्ठचम्पामागात्, तत्र चतुर्मासिकक्षपणेन प्रावृट्कालमतिवाहितवान् पारितवाँश्च ग्रामाद्वहिः (४) ततो विहरमाणः प्रभुः कायङ्गलसन्निवेशमागतवान् । तत्र माघमासीय जागरणदिने दारिद्र्य स्थविरनामानौ पाखण्डिनौ नृत्यन्तौ गायन्तौ च विलोक्य, गोशालो जहाल । तेन कुपितौ तौ गोशालमधिकं जघ्नतुः, प्रान्ते भगवच्छिष्यं मत्वा मुमुचतुः । ततः स्वामी श्रावस्ती - नगरीमायातः, अतिष्टच्च कायोत्सर्गे । तत्र सिद्धार्थों गोशालमाख्यत्त्वमद्य नृपलमशिष्यसि । गोशालस्तदुक्तिमलीकयितुं प्रयतमानस्तद्दिने गोचर्यै सुश्रावकसदने प्राविशत् । तद् गृहपतिः पितृदत्तनामा वणिगस्ति, तस्य पत्नी श्रीभद्रा नाम्नी वर्त्तते सा मृतवत्साऽऽसीत् । तामेकदा शिवदत्तनैमित्तिक उपादिशत् - भद्रे ! मा शोचीः, यदि मृतडिम्भकस्य पलं पायसेन सह पक्त्वा कसौचिद् भिक्षवे दास्यसि तर्हि ते पुत्रा जीविष्यन्तीति पुत्रजीविकोपायं श्रुत्वाऽवसरं प्रतीक्षमाणा तयोकविधिना पाचितं पायसं गृहाऽऽगताय गोशालाय दत्तवती । गोशालोऽपि तदाश, विवेद च यच्छ्रमणोपासिनां श्राद्धानां सद्मनि मांसभक्षणं गगनकुसुमकल्पमेवास्तीति सिद्धार्थवचो मुधा जातम् । पश्चादागत्य सिद्धार्थ - मत्रवीत् - यदद्य पायसमभुञ्जि, तवोक्तमलीकमभूत् । सिद्धार्थोऽवदत्
"
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org