________________
पष्ठं व्याख्यानम् |
( १४३ )
----
क्षन्नन्दसद्मनि च पारणामकार्षीत् । गोशालस्तूपनन्दगेहे साप्ताहिकपर्युषितवैकृताहारलाभेन प्रकुप्यन् – रे ! ईदृशस्य श्रद्धाविनयविहीनस्य तव सदनं मामकगौरवतपस्तेजसा भस्मसाजायतामित्यशपत्, तदैव तत्सदनमधाक्षीदासन्नदेवता । ततः प्रयातः प्रभुश्चम्पापुरीमायातः तत्र भगवान् द्वौ द्वौ मासौ क्षपयन् कृतवाँश्चतुर्मासीम् ३, तत्राऽन्तिमद्वैमासिकक्षपणपारणं नगराद्वहिः कृत्वा, कोल्लागसन्निवेशमागत वाँस्तस्थिवाँचेकत्र शून्यागारे कायोत्सर्गेण । तत्र विद्युन्मत्या दास्या साकं रममाणं सिंहाख्यं नगरनायकस्य पुत्रं प्रेक्षमाणो गोशाल उच्चैर्जहास । तत एनं नितरामकुट्टयत् । कुट्टितश्च गोशालः प्रभुमित्यब्रवीत् प्रभो ! मामधिकं जघान सः, भवान् कथं नो वारितवान् ?, तच्छ्रण्वन्नपि भगवांस्तूष्णीमस्थात् । सिद्धार्थोऽजल्पत् पुनरेवं कदापि माहसी, हसिष्यसि चेत्पुनरपि हनिष्यत्येव । ततो भगवान् पात्रालकमागात्, तस्थौ च क्वचिच्छून्यसद्मनि कायोत्सर्गेण । तस्मिँश्च निजदास्या स्कन्दिलया सह क्रीडन्तं स्कन्दं विलोक्य, बाढमुपहसन् गोशालः कुट्टितस्तेन । ततः प्रभुः कुमारसन्निवेशमेत्य, चम्पारमणीयोद्याने प्रतिमयाऽतिष्ठत् । तत्रैव पार्श्वनाथप्रभोरन्तेसद्बहुलशिष्य मण्डलमण्डितो मुनिचन्द्रयतिपतिः कुम्भकारशालायामतिष्ठत् । तच्छिष्यान् दृष्ट्वा गोशालोऽपृच्छत् — भवन्तः के सन्ति?,
ते जगदुः- - वयं निर्ग्रन्थाः श्रमणाः स्मः । पुनराचष्ट गोशालः – यूयं क ९, मामको धर्माचार्यश्च क ?, उभयोर्मेरुसर्षपयोः खद्योतगगनमप्योरिव तारतम्यमुपलक्षये । तदाकर्ण्य ते जगदुः - तावको गुरुरपि त्वा
व भवितेति श्रुत्वाऽतिक्रुद्धो भवन्नेवमाख्यत् - रे ! मामकं गुरुमाक्षिपन्ति भवन्तस्तर्हि भवदाश्रमो भस्मीभवतु । तैरप्यगादि - त्वादृशां शापान्मनागपि न बिभीमः । गोशालः सर्वमेतद्भगवन्तमुवाच । सिद्धार्थों बभाण - नैतेषामाश्रमो धक्ष्यते । तस्यामेव रजन्यां मुनिचन्द्रसूरिर्जिनकल्पसाम्यं विदधत्कायोत्सर्गे स्थितः केनचिन्मत्तेन कुम्भकारेण चौर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org