________________
(१४२)
श्रीकल्पसूत्रार्थप्रबोधिनी. भगवता प्रत्यलाभि, तदासन्नसदने सोऽप्यगात् तमागतं दृष्ट्वा गृहपतिः प्रामोदत । द्रुतमुत्थाय वन्दित्वा च सोल्लासमवक्-स्वामिन् ! मम गेहे पारणं विधेहि । तदा गोशालकेन हस्तौ प्रसारितौ गृही चोष्णं प्रासुकाहारं परिवेष्य, मम गृहे स्वर्णादिवृष्टिर्भविष्यतीत्याशयोपर्यपश्यत् । तदवसरे गोशालस्य मस्तके काक आगत्योपाविशत्, करे च काचिद्भवनोपरितो वह्निमक्षिपत् । तद्वीक्ष्य श्रेष्ठी दध्यौ-अहो ! मद्गृहेऽङ्गारवर्षणमेव जातम् , तद्गृहे तु स्वर्णवृष्टिर्जज्ञे । तदा दग्धपाणिर्गोशालो लजितो भवन्नागत्य दध्यौ-यदस्य पार्श्वे कापि शक्तिरस्ति, या सर्वत्र दीनारवृष्टिं विदधाति, तां विद्यामहमप्यमुष्माद् गृह्णीयाञ्चेदभीष्टं सेत्स्यति; लोकाश्च सर्वे मामपि भगवन्तमिवाऽऽदरिष्यन्तेतराम् । इत्यवधार्य, पुनर्भगवद्दिदृक्षया तत्स्थानमागतोऽपि स प्रभुं नाऽवलोकत ।
अथ प्रभुश्चतुर्थमासक्षपणपारणं कोल्लागसन्निवेशमागत्य, बहुलविप्रगृहेषु परमानेन व्यदधात् , तत्रापि देवता पञ्चदिव्यानि प्रकटयाञ्चक्रिरे । गोशालोऽपि प्रभुमपश्यन् गवेषयश्च नगरे सर्वत्र यदा नाऽऽलुलोके, तदा सकलमुपकरणं विप्रसात्कृत्वा, शिरः श्मश्रुणी च वापयित्वा, कोल्लागसन्निवेशमागत्य, प्रभुमवलोक्यैवमभ्यर्थयत-भगवन् ! त्वच्छिष्यता मे तिष्ठतु । प्रभुरपि तदभ्यर्थनामुररीकृत्य, तेन सहाऽग्रे विहरमाणः स्वर्णखलग्राम प्रति चचाल । अधिमार्गमेकत्र महति कटाहे क्षीरं पचमानं गोपमवलोक्य, गोशालो न्यगदत्-भगवन् ! क्षणमत्रैव स्थीयतामयं प्रचुरं पायसं पचति, तद्भुक्त्वा पुनरग्रे गन्तव्यम् । सिद्धार्थोऽवदत्नैतद्भोक्ष्यते, तत्पात्रमेव भग्नं भविता । ततो गोशालो गोपालसन्निधौ गत्वा, तद्भङ्ग व्यजिज्ञपत्, तदा सोऽपि तदभङ्गे प्रायतत, तथापि तत्पात्रमस्फुटत् । तदवलोकमानो गोशालो ' भाव्यं भवत्येव ' इति निरचिनोत् । ततश्चलित्वा भगवान् ब्राह्मणग्राममायातः । तत्र नन्दोपनन्दनामानौ द्वौ सहोदरौ स्तः। तयोश्च द्वौ पाटको वर्त्तते । प्रभुनन्दपाटके प्रावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org