________________
षष्ठं व्याख्यानम् ।
(१४१) नुभवन्तौ सुखेन तौ ववृधाते । अष्टमीचतुर्दश्यादिपर्वदिवसे पौषधं कुर्वता तेन जिनदासेन वाचितं धर्मकथादिकं श्रावं श्रावं तावपि सम्य. क्त्ववन्तौ व्रतिनौ जज्ञाते । अथैकदा जिनदासस्य सख्या तमपृष्ट्वैव बलीयांसौ कमनीयतमौ धुरीणौ विज्ञाय, निजेच्छया रथे संयोज्याऽदृष्टधुरौ तौ भाण्डीरवनयक्षयात्रायां तथा वाहितौ यथा तयोर्नाड्यस्तुत्रुटुः। ततः परावर्त्य गुप्त्यैव तौ जिनदासगृहेऽबध्नात् । तावस्थ्नां भङ्गात्यक्ता. ऽशनपानौ वेदनार्दितौ त्रिलोक्य, पुत्रवात्सल्यादिव रोरुधमानो जिनदासश्चिरं विषीदन् कारयामास ताभ्यां म्रियमाणाभ्यामनशनम् । चतुर्विधाहारहापननमस्कारमहामन्त्रस्मारणादितत्कालोचितसर्वमकरोत् । ततस्तौ शुभध्यानेन मृत्वा, नागकुमारावभूताम् । तावेव नवौ प्रयुक्ताऽवधिकौ सर्व विदित्वा, तत्राऽऽगत्यैकः पोतं तत्रेऽपरो भगवत्क्लेशाय प्रयतमानं सुदंष्ट्रदेवं व्यजेष्ट । ततस्तौ प्रभोः पुरस्तान्नृत्यगीतादिकं वितत्य, गन्धोदककुसुमश्चाभिवृष्य स्वस्थानं जग्मतुः। ५४ गोशालस्याऽऽगमनं, सह विहरणञ्च___ भगवानपि ततो विहरमाणो राजगृहनगरे नालन्दाख्ये पाटके तन्तुवायस्य शालायाः क्वचिदेकत्र भागे प्रथमं मासक्षपणं विदधत्तस्थौ । तत्र शरवणग्रामवासी मंखलीपुत्रः सुभद्रागर्भजो बहुलाख्याद्विजस्य गो. शालायामुत्पन्नत्वादन्वर्थनामा गोशालः समायातः । सहि प्रथमपारणादिवसे प्रभुं विजयश्रेष्ठिसदनात्प्रासुकाहारं प्रत्यलाभयत् । तदा देवकृ. तानि पञ्चमहादिव्यानि विलोक्य, प्रभो ! मामपि स्वान्तेसदमवगच्छेत्याख्यत् । ततो द्वितीयपारणा नन्देन पक्वान्नादिविविधप्रासुकाऽऽहारेण, तृतीया च सुनन्दाभिधेन सुश्रावकेण परमान्नादिनाऽकारि प्रभुणा । गोशालो व्यचिन्तयत्-यदेनं प्रतिसद्म जनः परया भक्त्या प्रतिलाभयति, अतोऽहमप्येतस्मात्पृथग्भूय, गोचर्यै व्रजेयञ्चेन्मामपि लाभयिष्यते, किलैधिष्यते च ममापि महिमति निश्चित्य, भगवतः पृथग्भूय, यद्गृहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org