________________
(१४०)
श्रीकल्पसूत्रार्थप्रबोधिनी. रारटीति, तेन ज्ञायते यदद्याऽस्माकमापतिष्यति कोऽपि मरणप्रायो महोत्पातः, परममुष्य महीयसः पुंसः प्रभावतो जीवन्तो भविष्यामः । इत्थं यावन्निगदति तावत् त्रिपृष्ठभवे यं केसरिणं भगवानहन, स सिंहजीवो बहुभवानधिगत्य, भवनपतिदेवेषु सुदंष्ट्रनामा नागकुमारोऽजनि । स चाऽवधिना प्रभुमवलोक्य, प्राक्तनं वैरं स्मृत्वा, तत्राऽऽगत्य, नावं निमज्जयितुमुदयुक्त । तदवसरे कम्बलसम्बलनामानौ नागकुमारदेवौ तत्राऽगाताम् । तत्र सम्बलो मजन्ती नौकामधस्ताद्धृत्वा खल्वरक्षत्, कम्ब. लस्तु पोतं मज्जयता सुदृष्ट्रदेवेन सह युद्ध्वा तमजैषीत् । पराजिते च तस्मिन् भगवान् सह सर्वजनैस्तीरमापत् । अनयोरुत्पत्तिश्चैवम्-मथुरानगर्यां जिनदासाख्यः परमश्रावको निवसति, स्त्री च साधुदासी नाम्नी परमश्राविकाऽखण्डशीलगुणशालिन्यस्ति । तौ दम्पती पञ्चमव्रते चतुष्पदानां जीवानां यावज्जीवं सुरक्षणाय प्रत्यजानीताम् । तयोश्च गोमहिष्यादिकं नाऽऽसीत् , किन्तु तत्रत्यायाः कस्या आभीर्या अपेक्षितं दधिक्षीरादिकमुचितमूल्येन साधुदासी क्रीणती किलाऽऽसीत् । इत्थं तयोश्चिरपरिचयाद् घनिष्ठा प्रीतिरुदपद्यत । अथैकदा आभीर्या गृहे विवाहोत्सवः प्रावर्त्तत । तत्र च तौ दम्पती प्रीत्या निमन्त्रितौ तामूचतुः-अयि ! आवयोरागमनं तवागारे न संभविष्यति, किन्त्वपेक्षितं तदुपकरणं सकलं मम सदनादादेयम् । अथ तया साधुदास्या दत्तानि वस्त्राऽऽभरणादीन्युपकरणानि समानीय, विवाहोत्सवं समपीपदत् । तेन प्रमुदितयाऽऽभीर्याऽनिच्छन्त्या अपि साधुदास्याः सद्मनि बलादेव द्वौ समानवयस्को सुन्दरतरौ वत्सतरौ वृषौ बवा गतम् । एतौ विलोक्य, तौ दम्पती व्यमृशताम्-यद्येतौ परावर्तयिष्यावस्तर्हि नूनमिमौ षण्डीकृत्य शकटे हले वा योजयिष्यति, ततश्चाऽनयोर्महादुःखं भविष्यतीत्यवधार्य, पुत्राविव शुद्धतृणदानजलपानादिना पुपुषतुः। तयोरेकस्य कम्बलमपरस्य सम्बलमिति नाम चक्राते । इत्थं वाहनादिश्रमजं दुःखमन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org