________________
षष्ठं व्याख्यानम् ।
(१३६) क्रुद्धो भूत्वा, 'चौरः खल्वयम् , निमित्तशास्त्रं स्तोकमपि न जानाति' इति लोकानवदत् । लोका अजल्पन्-भगवन् ! कदा कस्य किमयमचूचुरत् ? । सिद्धार्थो व्याजहार-यः खल्वस्ति वीरघोषकर्मकरस्तस्य कांस्यिकं दशपलमितं पात्रं चोरयित्वा, खजूरतरोरधस्तलेऽतिष्ठिपत् । एवमिन्द्रशर्मणो विप्रस्याऽजमपहृत्य, निशि निहत्याऽयमश्नात् , तदस्थीन्यधुनाप्येतस्य गृहपश्चाइदरीवृक्षतले भूमौ क्षिप्तानि वर्त्तन्ते । एवममुष्मिन् यद्वर्त्तते तृतीयं दूषणं तदहं वो नो वक्ष्यामि, किन्तु तत्पल्ल्येव निगदिष्यति, गत्वा तामेव पृच्छन्तु । ततो लोकाः कौतुकात्तदैव स्थानद्वयं गत्वा, दृष्ट्रा च तदुभयं पश्चात्तत्सदनमागतास्तदीयां भार्यामप्राक्षुः । साऽवदत्-अयं महापापी वर्तते, यदनिशं सोदरां स्वस्तारमेव भुङ्क्ते । ततो समेषां लोकानां तदुपरि महती घृणा जाता, भगवद्वाक्ये च परां श्रद्धामापुः । सर्वत्राऽऽत्ततिरस्कारो लज्जितः स भगवत्पादयोः पतित्वा, व्यजिज्ञपत्-त्वं हि विश्वस्मिन्नखिले पोपूज्यमानोऽसि, अहन्तु केवलमत्रैव कथञ्चिज्जीवामीतितद्दीनोक्तिमाकर्ण्य, मयि सत्यत्र खल्वेतस्य वृत्तिास्यतीति निर्धार्य, ततोऽन्यत्र व्यहरत् प्रभुः। ५३ कम्बलसम्बलयोः कथानकम् - ___ अथ विहरमाणो भगवान् उत्तरवाचालसन्निवेशे समागत्य, नागसे. नाख्यश्रावकसदने परमानेन पारणं व्यधात् । तदा पञ्चदिव्यानि प्रादुरासन् । ततः प्रभुः श्वेताम्बी नगरीमाययौ । तत्र प्रदेशीराजा भगवन्माहात्म्यं वितेने। ततः सुरभिपुरं प्रतस्थिवान्मार्गे नैयकगोत्रिणः क्षितीशाः पञ्चभीरथैर्भगवन्तमभ्यवन्दन्त । ततोऽध्वनि गङ्गानदी समायाता। तत्र सिद्धयात्राभिधनाविकस्य नावि बहवो लोका नदीमुत्तितीर्षवः समासत । प्रभुरपि तैः सह निषसाद । तदा कौशिको रराट । तच्छ्रत्त्वा क्षोमिलनामा निमित्तविदवोचत-भो लोकाः ! यदयं कौशिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org