________________
( १३८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
वनव्यापिनी सती सुकीर्त्तिराश्लेक्ष्यति । ८ यत्त्वं मन्दरभूधरशिखराSSरूढं स्वं लुलोकिषे, तेन देवस्थापित स्वर्णसिंहासनासीनो देवमानवसमज्यायां चतुर्विधं धर्ममुपदेक्ष्यसि । ९ सुरगणैः श्रितं पद्मसरो व्यलोकथाः, अतस्त्वां चतुर्निकायवन्तो निलिम्पाः सेविष्यन्ते । १० भगवन् ! यज्ञवान् मालाद्वयीं विलोकितवाँस्तदर्थं नो वेद्मि त्वमेव कृपां विधाय ब्रूष्व । तदा स्वामी छास्थ्यानोवाच किन्तु, सिद्धार्थव्यन्तरो भगवदङ्गे संक्रम्य जजल्प - यदहं मालायुगलाऽवलोकनात्साधुश्रावकभेदेन भवाम्भोधेस्तरतारणक्षमं महापोतकल्पं द्विविधं धर्मं वक्ष्यामि । तदित्थं स्वप्नफलानि व्याहृत्योत्पलो प्रभुं प्रणम्य स्वस्थानमगात् ।
"
५२ अच्छन्दक नैमित्तिककथा -
भगवानपि तत्राऽष्टार्धमा सक्षपणैरेकाञ्चतुर्मासीं पञ्चदशदिवसोनामत्यैत् । ततो विहृत्य, मोराकसन्निवेशमागत्य प्रतिमास्थोऽतिष्ठत् । तत्र च वीरविभोर्माहात्म्यप्राकट्याय भगवच्छरीरे प्रविष्टः सिद्धार्थव्यन्तरो लोकानां त्रैकालिकानि फलानि वक्तमारेभे । तेन लोका भगवत्यधिकं श्रधिरे सिषेविरे चाऽसीमया भक्त्या । इत्थं प्रभोर्महिमा तत्राऽवरीवृध्यत । तदा तत्रत्यः कश्चिदच्छन्दकनामा नैमित्तिकः प्रभौ महतीं द्वेष्यधियमभाषत् । यतः पौरात्तमेवमूचिरे-पत्वमार्यदेव इव निमित्तं नात्थ, गताहे मया क्षेत्रेऽहिरदर्शि तदूचिवान्भगवान्, दिने यदभुजि तदप्यगदत् । इत्थं भगवन्महिमाधिक्यं श्रावं श्रावं मत्सरी स एकदा भगवद्वाक्यमलोकं चिकीर्षुस्तत्रागत्यकरे तृणमेकं लावा, प्रभुमपृच्छत्आर्य !' त्वमत्र त्रिकालदर्शी श्रूयसे, अतः पृच्छामि किमेतत्तृणं छेद्यमच्छेद्यं वा भविता ? तन्निशम्य नैवैतत्केनापि कदापि छिद्येत इति सिद्धार्थोऽभाषिष्ट । तदा स दुर्मतिस्तत्तृणं छेत्तुमुदयुनक् । तदवसरे शक्रेन्द्रः प्रयुक्ताऽवधिकः सर्वं विदित्वा तत्रागत्य पविना तस्याङ्गुलीरेव खल्वच्छेत्सीत् । ततोऽच्छिन्ने तृणे सर्वेस्तिरस्कृतस्त्रेपेतराम् । सिद्धार्थो व्यन्तरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org