SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ षष्ठं व्याख्यानम् । ( १३७) मायां रजन्यामस्मिन् प्रासादे यस्तिष्ठति तं हिनस्तीति लोकाः प्रभुं न्यषेधिषुस्तथाप्यकुतोभयः प्रभुमौनमाधाय, तत्रैव कायोत्सर्गेण तस्थौ । स यक्षः सायङ्कालमारभ्य भगवद्भापनाय नानाविधमुपसर्ग व्यतत । तत्रादौ भूमिॉश्च यथा भिद्येतां तथाऽदृहासं ततान । ततो दन्तावलो भूत्वा, शुण्डादण्डेन भगवदङ्गे प्राहरत्। ततः पिशाचरूपेण भीषयामास । ततः सर्पो भूत्वा, प्रभुमनेकधाऽदाङ्क्षीत् । इत्थमसह्यानुपद्रवानकरोत् , तदपि प्रभुर्मनागपि नैव चुचुभे । ततो दुरात्मा यक्षो भगवतः शिरसि श्रवसोनसोनयनयोर्दन्तेषु पृष्ठे कररुहेषु विविधां शूलादिवेदनां चाऽका. धीत् , तथापि भगवन्तमक्षुब्धमवलोक्यासाधारणं पुमांसमवधार्य, सेवितुमलगत् । स्वाऽपराधं क्षामयश्च प्रभोरग्रे मुदा नरीनृत्यमानो मधुरं गायं गायं सम्यक्त्वमीयिवान् । लोकाश्चैवं बुबुधुर्यदमुना दुरात्मना ध्रुवम घानि स आर्यः । यदद्यैवं नतीति प्रमुदितो मधुरं गायति । तत्र च तत्कृतां कदर्थनां सहमानः प्रतिमास्थ एव स्वल्पं निद्राणो भगवान् दश स्वप्नानवलोक्य जजागार । जाते च प्रभाते तत्रागता लोका भग. वन्तमबाधमवलोक्य जहषुः । अष्टाङ्गनिमित्ताऽभिज्ञावुनौ उत्पलेन्द्रशर्माणी बाडवौ तत्राऽऽजग्मतुः । तत उत्पलनैमित्तिकोऽजल्पत्-भगवन् ! अद्य रात्रौ ये दश स्वप्नास्त्वया दृष्टास्तत्फलन्तु सर्वज्ञस्य भगक्तो विदितमेवास्ति, तथापि व्यवहारदृशा यथाशास्त्रं त्वां ब्रवीमि-यत्वं १ तालपिशाचमवधीत्तदचिरान्मोहनीयं कर्म निहन्तासि । २ सितकोकिलदर्शनाच्छुक्लध्यानी भविष्यसि । ३ पञ्चवर्णविचित्रकोकिलयुगलदर्शनाद् द्वादशाङ्गी प्ररूपयिष्यसि । ४ गोवृन्दविलोकनाच्चतुर्धात्मसञ्चस्त्वां सेविष्यते । ५ अपारं पारावारं यतस्तेरिथ, ततस्त्वं संसारसागरं तरिष्यसि । ६ यदुदयमानं भास्करं प्रेक्षाश्चकृषे, तेनाऽचिरात्ते केवलज्ञानद्भविष्यति । ७ यत्त्वमान्त्रैः श्लिष्टं मानुषोत्तरनगं दद्रष्ठ, तेन त्वां त्रिभु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy