________________
(१३६ )
श्रीकल्पसूत्रार्थप्रबोधिनी. श्रेष्ठिन एकदा पञ्चशतशकटानि महत्यामेकस्यां तटिन्यां पङ्क निरमा
क्षुः, तदवसरे कश्चिदेको युवा बलीयाननडान्मामेव द्विधा विभज्य, युगद्वये योजयेञ्चेदहमेक एव सर्वाणि शकटान्युत्तारयाणीति बलोत्कर्ष दर्शयन्निव वामयुग्यो भूत्वा, सर्वाणि समुदतीतरत् । तावता परिश्रमेण भन्नास्थिको गन्तुमशक्तो भवत् । तमशक्तमवलोक्य, श्रेष्ठी बर्द्धमानग्राममागत्य, पञ्चकुलेभ्यस्तदवस्थवृषभस्य तृणजलदानाय द्रव्यं दत्वा, तमनड्राहश्च तत्रैव मुक्त्वा ययौ । ग्राममुख्यास्तु तश्चिन्तां नो चक्रिरे । सोऽ. नड़ान् क्षुधातृषा च परिबाधितो कामनिर्जरया मृत्वा, 'शूलपाणि' नामा यक्षो बभूव । सहि प्राग्वीयं तमवधिना ज्ञात्वा भृशं चुकोप । ततस्तत्र ग्रामे सकललोकक्षयकरीं महामारी व्यतनोत् । भूयांसो लोका मम्रः, कियतामसंस्कृतानां शवानामस्थिसञ्चयैरस्थिया । इत्येर पप्रथे। एवं बहँल्लोकान्त्रियमाणान्निरीक्ष्याऽवशिष्टा लोकास्तमेकदा समभ्यर्च्य जजल्पुः-भो यक्ष ! केनोपायेन असत्यति, निवत्यति च केनोपायेन महामारीयं तदाचश्व । लोकाभ्यर्थनं श्रुत्वा, यक्षो व्योम्नि खल्वेवभवादीत्-हितं वाञ्छथ चेदस्मदुक्तिं कुरुत, यदहं प्राग्भवे सार्थवाहस्य धनदेवस्य वृषभ आसम् , गन्तुमशक्तस्य मनार्थे श्रेष्ठिना धनानि भवद्भ्यो दत्तानि, भवन्तश्च मामकी सेवां मनागपि नाकुर्वत, सर्वाणि तानि द्रव्याणि मिथो बिभेजिरे । तत एवाऽहं कुमृतिनागा , भूत्वा व यक्षो विदित्वा, च तदेतत्प्राक्तनं यौष्माकं मन्तुं कुपित्ता, च भवतः संहर्नु मिमां मारीमजीजनम् । अतो यूयं तत्राऽस्थिनिचयोपरि रम्यं देवलं निर्माय, शूलहस्तां वृषभमूर्ति स्थापयत, नित्यं नानोपचारर्चयत, ततो बाधयाऽनया मुक्ता भविष्यथ, नोचेत्सकला मरिष्यथ । यक्षोक्तिमाकर्ण्य, प्राणत्राणाय तूर्णमेव चैत्यं निर्माय, तन्मूर्तिमतिष्ठिपस्ते लोकाः। नानावस्तुना तदर्चामारेभिरे, तत उपशशाम तत्र महामारीकृतोपद्रवः । तमेव प्रतिबोधयितुं प्रभुस्तस्मिँश्चैत्ये समाययौ । दुष्टो सौ यक्षस्त्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org