________________
षष्ठं व्याख्यानम् ।
(१३५) ५० पुष्पनैमित्तिय कथानकम्--- ___ ततो विहरमाणस्य प्रभोगङ्गातीरेऽतिसूक्ष्मकतेऽङ्कितायां पादप
तौ चक्रध्वजोर्द्धरेखाङ्कुशादिकानि चिह्नानि विलोकमानः पुष्पाख्यः सामुद्रिको दध्यौ-यदमुनाऽध्वना को प्येकाकी चक्रवर्ती निरगात् । तस्मात्तदन्तिकमित्वा, तत्वां विदध्याञ्चेदीप्लितं प्राप्नुयामिति निर्धार्य, तदैव पदपङ्क्त्यनुसारेण भगवदन्तिकमेत्य, निरीहं दिगम्बरं विलोक्य, ध्यातुमलगत्-हन्त ! महता कष्टेन यदध्यषि सामुद्रिकशास्त्रं तदद्य मुधैवाऽभूत् , यस्माञ्चक्रवर्तिलक्षगाऽङ्कितोऽसौ श्रामण्यं नीतो रङ्को वीक्ष्यते; अतः सामुद्रिकग्रन्था वैयर्थाजल एव क्षेपणीयाः। इत्थं यावदवधारयति, तावच्छकः सर्वमेतदाधिना विदित्वा, तत्राऽऽगत्य, भगवन्तमभिवन्द्य, पुष्पनैमित्तिकमवादीत्-किमेवं विषीदसि ? सामुद्रिकं मुधा नास्ति, किन्तु सत्यमेव विदाङ्करोतु भवान् । असौ खलु सार्वभौमव्यअनव्यञ्जितस्त्रिभुवनभत्ता, सुराऽसुरनरेन्द्राणामपि शासिता, सर्वसम्पप्रदाता, तीर्थप्रवर्त्तयिता भविता। अतएवाऽमुष्य देहः खेदस्वेदमलव्याधिमुक्तः, श्वासश्च सौरभ्यमयः, पिशितशोणिते च पयसीव धवलतरे स्तः। ईदृशानि बहिरान्तराण्यप्यगण्यान्येव लक्षणानि विचकाशति । इत्थं भगवद्गुणगणान् वर्णयन् , पुष्पसामुद्रिकाय भूरि स्वर्णमणिरत्नानि प्रदाय, शक्रः स्वस्थानभागान्नैमित्तिको पि प्रहृष्यन्निजदेशं प्रत्यगच्छत् । ५१ शूलपाणियक्षप्रतियोधो, भगवतः: दर्शनश्च____ अथ प्रभुः किश्चिदधिकद्वादशाब्दपर्यन्तं सदैव व्युत्सृष्टकायो दैविकान्, मानवान्, तिर्यक्कृतान्, भोगाद्यर्थ प्रार्थनप्रमुखाननुकूलान् , ताडनादिप्रतिकूलान् सर्वानुपसर्गान् सेहे । क्रोधाद्यभावाच्चक्षमे, दैन्यस्याऽकरणात्तितिक्षामबोढ । तत्र दैविकोपसर्गसहनं यथा-स भगवान् मोराकसन्निवेशादेत्य प्रथमां चतुर्मासी शूलपाणियक्षस्य भवने तस्थिवान् । स च यक्षः प्राग्जन्मनि धनदेवमहेभ्यस्य वृषभ आसीत् । तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org