________________
( १३४ )
"
"
नादासन्नकूपे निपत्य, परशुभिन्नहृदय आर्त्तध्यानेन मृत्वा, तस्मिन्नेवाश्रमे चण्डकौशिकनामा दृष्टिविषो महाकायो बिलेशय उदपादि । स च दृशैव लोकान् भस्मसात्कर्त्तुं प्रावृतत्, तद्भीत्या च सर्वे तापसाः पलायन्त । ये केचन तेन पथा चेलस्तान् भस्मसात्कृतवान् तेन तन्मार्गेण केऽपि न चलन्ति । ” भगवाँस्तु तस्यैव विलोपरि कायोत्सर्गेण तस्थिवान् । तदा स बिलेशयः प्रभुं प्रतिमायां स्थितं विलोक्य, रोषाज्ज्वलन्भास्करं दर्श दर्श दृष्टिज्वालां प्रकामम्भगवदुपरि समौज्झत् । ममोपर्येव जातुचिदयं मापतत्विति धिया दूरमपासरच्च, पुनः पुनरेवमकरोत् ; तथापि प्रभुं तथैवाऽद्राक्षीत् । ततोऽतीव कोपमानीय भगवन्तं चरणयुगले बाढमदशत्, तदपि निराकुलमेव प्रभुमपश्यत् । ततो निर्गतं रक्तञ्च दुग्धकल्पमालाक्य व्यमृशत् - अहो ! यदहं पश्यामि स तत्कालमेव भस्मसाज्जायते, एनमदशं बहुधा तथापि जीवत्येव मनागपि नैव चचाल, रुधिरमप्येतस्य क्षीरसदृशं निर्गच्छति, अतो नूनमेव कोऽप्यसाधारणः पुमानस्तीति विभृश्य भगवन्मुखमालुलोके । तदा रे चण्डकौशिक ! बुध्यस्व बुध्यस्वेति प्रभुभाषितं श्रुत्वा, जातिस्मृतिमासाद्य, प्राग्भवानपश्यत्ततो भगवन्तं त्रिःपरिक्रम्य जगाद—जगदुद्धारपरायण ! मामनाथमेतस्माद्दुर्गत्यकूपारादुद्धर, सफलं मे जन्म येनाऽनायासेन दुर्गतिकूपोऽधृतोऽस्मीति विमृश्य, समुद्गततीत्रतरवैराग्यादान्त पाचिकाऽनशनः स बिले मुखं विन्यस्य तस्थिवान्, शरीरन्तु बहिरेवाऽतिष्ठिपत् । तदा तेन मार्गेण यान्तीभिः क्षीरदध्यादिविक्रयार्थमाभीरीभिः प्रसेदिवानद्य नागराज इति जानतीभिर्धृत क्षीरदधिशर्करादिकैस्तदर्चाऽकारि, तेन तदङ्गं घृतमीलपिपीलकादयो जीवा भृशमबाधन्त; तत्परिपीड्यमानोऽपि स दध्यौ - यद्गात्रे सञ्चालिते मरिष्यन्त्येते जीवास्ततस्तदवस्थ एव मनागप्यकम्पमानः, पिपीलिकादिना चालनीकृताऽशेषगात्रः स प्रभुदर्शनाऽमृतसंसिक्तः शुभध्यानेन मृत्वा सहस्रारदेवलोके देवोऽभवत् ।
श्रीकल्पसूत्रार्थप्रबोधिनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org