________________
षष्ठं व्याख्यानम् ।
(१३३) च सकलास्तीर्थङ्करा यावजीवं तदेवदूष्यवसनधारणात्सलका एवाssसन् । कियत्सु ग्रन्थेषु मध्यपातिनां द्वाविंशतिजिनानामेव यावज्जीवं देवदूष्यवस्त्रधारणमुक्तम् । ४९ चण्डकौशिकप्रतिबोधः
इत्थं विहरन्नेकदा भगवानुत्तरवाचालसन्निवेशे वर्धमाननगरमियाय । तत्र स्वर्गबालुका रूप्यबालुकाभिधे नद्यौ समुत्तीर्य, अग्रे चलतो भगवतो मार्गद्वयमागात्; तत्रैको वक्रोऽपरश्च सरलः । तदा लोका ऊचुःआर्य ! योऽयं सरलः पन्थास्तत्र महाहे तिरस्ति, तेन पथा मागाः । एवं लोकैर्वार्यमाणोऽपि प्रभुर्वक्रपथमपहाय, सरलमार्गेणैव पुरश्चचाल । मार्गे च कनखलकानने कस्यचिदेकस्य तापसाश्रमोऽस्ति । तत्रैको दृष्टिविषो महाकायश्चण्डकौशिको महाव्यालस्तिष्ठति । तदुत्पत्तिश्चैवम्" क्वचिन्नगरे द्वौ गुरुशिष्यौ चतुर्मास्यामतिष्ठताम् । तावेकदा मासक्षपणपारणाय गोचर्यै गतवन्तौ । मार्गे च वर्षों जीवोत्पत्तेर्बाहुल्याद् गुरोः पादतलेन लघुदर्दुरो ममार । शिष्योऽजल्पत्-स्वामिन् ! भवत्पादन दर्दुरोऽम्रियत । गुरुः सकोपमवादीत्-रे! किमेवं ब्रूषे, नाऽयं मक्रमतला. ऽऽघातेन मृतः, किन्त्वन्यस्यैव चरणतलनिपातसंपीलितो मृतो दृश्यते। ईदृशा मृता जीवास्तु बहुशोऽधिमार्ग दृश्यन्ते । किन्ते मयैव निहताः १, गुरूक्तिं श्रुत्वा शिष्यो मौनमदधात् । पुनरीर्यापथिकी प्रतिक्रमणकाले निशि संस्तारकाऽवसरे च जातां दर्दुरविराधनां गुरुणा स्मारितवाञ्छिष्यः । तेन तदुद्भूतप्रचण्डकोपानलदन्दह्यमानो गुरुस्तमन्तेसदं निहन्तुमधावत् । शिष्यस्तूर्णं ततः पलाय्य वाप्यनश्यत् । गुरुरेव स्तम्भाऽऽघातेन स्फुटितशिरा मृत्वा, ज्योतिष्कदेवो जज्ञे । ततश्युत्वाऽभूत्तत्राश्रमे चण्डकौशिकनामा तापसमुख्यः, अजनि, चामुष्य शिष्याणां पञ्चशती । स चैकदा निजवाटिकायां फलपुष्पादिकमाददतो राजपुत्रानालोक्य, प्रकोपात्परशुपाणिस्तानिहन्तुमधावीत् , परन्तु जवेन धावमानः पादस्खल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org