________________
(१३२) ___ श्रीकल्पसूत्रार्थप्रबोधिनी. नाऽप्रापि । अतस्त्वामेवाऽधुना शरणमधिगतोऽस्मि । विश्वजनीन ! जगज्जनदारियदूरीकरणशीलस्य मद्दारिद्र्यनिराकरणे कियाँस्ते परिश्रमः?। इत्थमभ्यर्थमानाय तस्मै विप्राय प्रभुणा स्वकीयदेवदूष्यवाससोऽर्धमदायि । एतद् वसनार्धदानेन भगवच्छिष्यपरम्परायां वसनपात्रयोर्मुर्छा व्यज्यत इति केचित् , यदसौ प्राग् विप्रकुलेऽवततार, अतएव विप्रायैव तददित । स विप्रस्तु तदर्थं चीवरमादाय, निजगेहमागात् । तदवसरे सचीवरं पतिमवलोक्य, प्रहृष्टा सती कृताञ्जलिरभ्यधादेवं तत्पत्नी-"प्राणनाथ ! केकी पयोदागमनमिव त्वदागमनकाङ्गिणी, नीरवियुक्ता मत्सीव व्याकुलतामुपगता किलाऽऽसम् " इत्यादिमधुरं वच आचक्षाणा सप्रेम सरसमाहारं भोजयित्वा प्रासीसदत्तमाम् । विप्रस्तद्वसनाधू दशाञ्चलकृते तन्तुवायाय ददौ । सोऽपि तद् व्यतिकरं ज्ञात्वा, जगाद भो विप्र! त्वं याहि, एतद्वसनार्धमानय, तत्खण्डद्वयमेकीकृत्य दास्यामि, भवि. प्यति चैतल्लक्षार्धम् । तथा करणेन तव ममापि दारिद्यं विनशिष्यतीत्याकर्ण्य, लोलुपीभूय, पुनरपि भगवदभ्याशमागत्य, दध्यौ विप्रः-यदहं कथमेनं भूयो भूयः प्रयाचेय ?, याचिष्ये चेन्मां लोलुपं वेदिष्यति प्रभुः। अतो मया लोभाधिक्यं नैव प्रकटनीयमिति निश्चित्य, मौनमशिश्रियत। “ यस्मादर्थिनां वाक् ब्रीडां हि नियच्छति, असम्पदा च याचितुं प्रेरयते, तदपि दत्तमौनकपाटेन मुखेन देहि देहीति नाऽचकथत् । ” अबदभ्रे च स्वान्ते यदा कदा भगवतः स्कन्धादेतन्निपतिष्यति, तदैतद् ग्रहीताऽस्मि । इत्थं वर्षमेकं स विप्रोऽवसरं प्रतीक्षमाणः प्रभुमन्वगच्छत् । अथैकदा स्वयं निपतितं तदादाय, स्वसदनमायातः स्वं कृतकृत्यं मन्यमानः । इत्थमस्मच्छिष्यपरम्परया सवासप्ता भवितव्यामति सचैलधर्मप्ररूपणकामेन भगवता साधिकमासाधिकमब्दं सचैलेनाऽ. भावि । सपात्रेणापि भवितव्यामति स्थापनाऽऽशया प्रथमपारणं भगवानकार्षीच्च पात्रेण । पश्चादाजन्माऽचैलकः पाणिपात्रश्चाऽभवत् । अन्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org