________________
षष्ठं व्याख्यानम् ।
४८ भगवदचैलतानिरूपणम्
प्रभुर्विहरमाणो दक्षिणवाचालनगरसमीपे स्वर्णवालुकानदीतीरे स मायातः, तत्र च कण्टकेऽवलग्नस्य भगवतो देवदृष्यवसनार्धमपतत् । कियद्दूरं गत्वा, सिंहावलोकनेन तदद्राक्षीत् । तदवलोकनं ममत्वधियाsaid भगवति केचित् ९, सचित्तवसतौ वाऽन्यत्र पपातेति विलोकयितुमित्यन्ये २, अस्मत्परम्परासु वस्त्राणि पात्राणि वा, सुकराणि दुरवापाणि वा भविष्यन्तीति वुभुत्सयेत्यपरे ३, वृद्धास्तु वस्त्रं कण्टकेऽवलगदतो मे शासनं कण्टकबहुलं भविष्यतीति विदित्वाऽलोभत्वात्तद्वसनार्थं प्रभुर्नाSगृह्णात्, किन्तु पितुः सखा विप्रो जग्राह । तदर्धन्तु प्रागेव तस्मा अदात्, तद्दानमेव विस्तृणाति -
Jain Education International
( १३१ )
ब्राह्मणो निर्धनत्वाद् भगवदाब्दिकदानवितरणवेलायां विदेशगत आसीत् । दौर्भाग्यात्तत्रापि किञ्चिदप्राप्य गेहमागात्तदवस्थं तं भृशम्भार्यापि धिक्कुर्वती ततर्ज-रे निर्भाग्य ! किं कर्म पुराऽकारि, येन कुत्रापि किमपि नो लेभिषे ?, हन्त ! यदा भगवान्नवाम्बुदो वारिधारामिव याचकजनमनः कामितं प्रदायं प्रदायं समेषां दारिद्र्यं विलोप्याऽऽचन्द्रसूर्यं त्रैलोकिकयाचकगणं महर्द्धिकमकरोत् । तच्छ्रुत्वापि तदा किं नागाः ?, अतस्त्वं दूरमपसर, मां मुखं मा दर्शय, नोचेदधुनापि तमेव जङ्गमं चिन्तामणिं याचस्व । स एव जगद्नाथजनबन्धुः परदुःखासहिष्णुरवश्यमेव तवापि दारिद्र्यमपहरिष्यति । इत्थं स्त्रिया संप्रेरितो विप्रो भगवत्पार्श्वमागत्यैवं विज्ञपयाञ्चकार - विभो ! त्वामेकमेव सुरासुरनराः कल्पतरोरप्यधिकं वाञ्छितदायकं निगदन्ति । भवद्दानवाध निमग्नतरस्य दारिद्र्यस्य नामापि नो श्रूयते । अहमेक एव हतभाग्यस्तदवसरे विदेश आसम् । तत्रापि किं किं नाऽकारि, के के वा नाऽभ्य• र्थिताः, कुत्र कुत्र वा शिरोऽवनामं नाऽकरवम्, तदपि क्वापि किमपि
For Private & Personal Use Only
www.jainelibrary.org