________________
(१३०)
श्रीकल्पसूत्रार्थप्रबोधिनी. भिध्वनिः ४, अहोदानमहोदानमित्याघोषः ५, इति भगवन्माहात्म्यवि. द्योतनाय पञ्चदिव्यानि जज्ञिरे ।
ततो विहरन् भगवान् ‘मोराकसन्निवेशे' दुइजन्ततापसाश्रममा गतवान् । तत्र सिद्धार्थराजस्य सखा स आश्रमपतिरभिमुखमागात्। प्रभु रपि पितृसखत्वात्सम्मेलनाय हस्तौ प्रासारयत, अतिष्ठच्च तदत्याग्रहेणैकां रजनीम् । प्रगे च विजिहीर्षु भगवन्तं स तापसः स्थातुं समभ्यर्थयामास । निर्बन्धातिशयमवगत्य, प्रभुर्यथावसरमित्युदीर्याऽन्यत्र विजहार । ततश्चाष्टौ मासान् स्वैरं विहरन् वर्षौ पुनस्तत्राऽऽययौ प्रभुः । तापसोऽपि सहर्ष महता प्रश्रयेण तृणकुटीरके भगवन्तमध्यवासयत् । तदाऽ. न्यत्र कुत्रापि तृणादेरसत्वात्क्षुधापरिपीडिता गावः प्रभुणाश्रितकुटीरकं निःशङ्कमशितुं लग्नाः । इतरतापस इव भगवाँस्तु ता गावो नैव वारयति स्म, पश्यन्नपि मौनमेव शिश्रिये । तदा गवादिना भक्षितप्रायं कुटीरं विलोक्य, तत्स्वामी समागत्य, प्रभुमेवमाख्यत्-भगवन् ! ये खल्वचेतनाः पक्षिणस्तेऽपि स्वाऽऽवासमबन्ति, त्वन्तु राजपुत्रो भूत्वाऽपि स्वाश्रयपरिपालनेऽप्यशक्तोऽसि ! तदाक्रोशं श्रुत्वा, भगवान् दध्यौयन्मयाऽतः परमत्र न स्थातव्यम्, यदसौ कुटीरकविनाशादप्रीतिमागात् । ततो भगवाञ्छावणकृष्णाऽमावास्यायामेव व्यहार्षीत् । तदैव पञ्चैतानभिग्रहानकरोत्-अप्रीत्यादिप्रतिबन्धकबाहुल्ये स्थाने न स्थातव्यम् १, यावच्छाद्मस्थ्यं तावत्प्रतिमयैव वर्तितव्यम् २, गृहिविनयो न विधेयः ३, मौनता ४, पाणिपात्र एव भोक्तव्यम्, ५, इत्थमात्ताऽभिग्रहः प्रभुः साधिकमासाधिकवर्ष चीवरं बिभराञ्चकार, ततःपरमचेलत्वं पाणिपात्रत्वञ्चाङ्गीकृतवान् ।
१ ग्रन्थान्तरे च पुष्पवर्षणं विहाय वसुधारावृष्टिमाह । सा च सार्धत्रयोदशदीनारकोटिरुत्कृष्टा, तावल्लक्षामिका जघन्या भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org