________________
षष्ठं व्याख्यानम् ।
(१२६) तस्थिवान्नगराबहिः। तत्रैकः कर्षकः सकलाहं हलेषु वृषभान् संबाह्य, सन्ध्यासमये तान् भगवत्पार्श्वे विमुच्य, गोदोहनकृते निजसदनमायातः। वृषभास्तु क्षुधितत्त्वाच्चरितुं वनं प्राविशन् । गृहकृत्यं सम्पाद्य पुनस्तत्रागतो गोपो वृषभानपश्यन् प्रभुमपृच्छत्-आर्य ! स्वदये मुक्ता मे वृषभाः क्वापि गच्छन्तो दृष्टाः ?, घुनः पुनः पृष्टोऽपि यदा नोवाच भगवान् . तदा तद्गवेषणाय वनं ययौ। ते वृषभास्तु कामञ्चरित्वा, तत्रैव पुनरागत्य, निशाऽवसानेऽतिष्ठन् । गोपोऽपि सकलां निशामितस्ततः सर्वत्राऽन्धिष्य, तच्छुछिमलभमानश्चेखिद्यमानः प्रगे तत्राऽऽगतस्तत्रैव वृषभान्निरीक्ष्य, कुपितो जजल्प-रे पाखण्डिन् ! त्वमेव मम वृषभान् कुत्राऽपि गुप्तानकृथाः, मामपि मुधैव सकलां रजनी भ्रामितवानसि, अतस्त्वामपि तत्फलं दर्शयामीति वदन , स्थूलया रज्ज्वा प्रहर्तुमधावत । तदेतदवधिना विहिवा, शकेन्द्रस्तत्कालं तत्रागत्य “ रे ! किमेनं नो जानासि, यदसौ नन्दिवर्द्ध भूपतेता सिद्धार्थराजसूनुरात्तसंयमो वर्द्धमानस्तपस्यति ?, अमुष्योपसर्गकरणेन त्वां का दशां नेष्यते राजेत्यपि नो बुध्यसे ?” इत्थं भीषयित्वा न्यवीवृतत् ।व्यजिज्ञपञ्च-भगवन् ! द्वादशवर्षाणि तव बहवो विघ्नाः पतिष्यन्त्यतोऽहं तावत्कालं भवदन्तिके वैयावृत्त्यचिकीस्तिष्ठानि चेद्वरम् ? भगवानाख्यत्-शकेन्द्र ! एतन्नाऽभून्नवाऽग्रे भविता, नो भवति यत्तीर्थकर्तारः सुरेन्द्रस्य दनुजेन्द्रस्य वा यस्य कस्यापि साहाय्येन कैवल्यमुत्पादयेयुः, किन्तु स्वबाहुवीर्येणैव प्राप्नुवन्ति । तथापि देवेन्द्र आत्यन्तिकोपसर्गनिवृत्तये भगवन्मातृष्वतीयं सिद्धार्थव्यन्तरं तत्र मुक्त्वा, स्वस्थानमीयिवान् । ततः प्रभुः प्रभाते जाते विहृत्य — कोल्लागसन्निवेशे ' समागत्य, बाहुलविप्रस्य गृहे भविष्यतां साधूनां पात्रमावश्यकमिति सूचनायैव कांस्यपात्रे परमान्नेन प्रथमं पारणं खल्वकरोत् । तदा ध्वजदर्शनम् १, गन्धोदकवृष्टिः २, पुष्पवृष्टिः ३, देवदुन्दु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org