________________
(१२८)
श्रीकल्पसूत्रार्थप्रबोधिनी न्तरमेव विभोस्तुर्य ज्ञानमुदपादि । ततः शक्रादिसर्वे देवा भगवन्तमः भिवन्द्य, नन्दीश्वरद्वीपमागत्याऽऽष्टाहिकं महामहं विधाय, स्वस्वस्थानमगुः । भगवानपि नन्दिवर्द्धनमापृच्छय विजहार । इति श्रीवीरजिनशासनस्फारशृङ्गारहार-सुविहितसूरिपुरन्दरनन्दनवनाऽऽ
रामविहारि-शिथिलाऽचारप्रचारतमोहारि-जैनाचार्य-भट्टारकश्रीमद्विजयराजेन्द्रसूरीश्वरसङ्कलितायां श्रीकल्पसूत्रार्थप्रबोधिनी'
नाम्न्यां टीकायां पञ्चमं व्याख्यानं समाप्तम् ।
अथ षष्ठं व्याख्यानं प्रारभ्यते ।
-- -- ४७ भगवतो विहारः, परिषहसहमञ्च___अथ चतुर्ज्ञानवद्भगवद्विहारानन्तरं " त्वां विना काननायमाने सदने कथं तिष्ठाम: ?, केन बाऽनुभविष्यामो गोष्ठीसुखम् ?, मोक्ष्यामहे वा केन सत्रा ?, कं वा प्रतिकार्य प्रीतिबाहुल्याद् वीर ! वीर !! इत्याह्वयिष्यामः ?, किमन्यत्, वामपश्यतां नो हृदयानि स्फुटन्ति, नूनमेते वयं त्वया विना निराश्रया अभृम ” इत्थमालपन्तस्ते नन्दिवर्द्धनप्रमुखा रोरुद्यमानाः कथमपि ततो न्यवर्त्तन्त । इतश्च भगवदङ्गे दीक्षाकालिको गोशीर्षचन्दनादिविलेपः साधिकमासचतुष्टयीं सद्यस्क प्राय एवाऽऽसीत् । अतएव तदङ्गसौरभ्यभराऽऽकृष्टा मधुकराः परितः समेत्य, वाढं गाढं प्रभोस्त्वचं दशन्ति स्म। भूयांसो युक्जनाश्च गन्धपुटी ययाचिरे । तदददाने मौनमाधाय, सन्तिष्ठमाने भगवति प्रकुपितास्ते बहूनुपसर्गान् कर्तुमारेभिरे । कियत्यः कामिन्योऽपि मारविजित्वरमामोदभरं शरीरमालोकमा. लोकं मदनवशम्वदीभूता भगवन्मनःसुमेरुमनेकविधकुटिलकटाक्षपातहावभावादिवात्यया चालयितुमयतन्त । परमेष भगवान् सर्वमेवैतदगणयन्मुहूर्त्तमात्रावशिष्ट तत्रैव दिने कुमारग्राममागत्य, रात्रौ कायोत्सर्गेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org