________________
पञ्चमं व्याख्यानम् ।
( १२७ )
सन्धारितसर्वाभरणकान्तिकान्तः, सर्वबलवाहन सकलमहाजन मेलापकेन सहितः, विहितसर्वजनौचित्यः, नैगमादिनागरैलोकैः समस्ततालाचरैः सहितः, भगवान्महावीरो वर्द्धमानः क्षत्रियकुण्डनगरमध्यपथेन निर्गत्य, ज्ञातखण्डवनाभिधानोपवनेऽशोकमहातरुतले समाययौ ।
तत्राऽऽगतो भगवाञ् शिविकात उत्तीर्य, वस्त्राभरणादीनि माल्यादिकञ्च स्वहस्तेनोत्तार्थ, कराङ्गलीभ्य ऊर्मिकाः, मणिबन्धाभ्यां वलये, भुजाभ्यां केयूरे, ग्रीवातः समस्तमुद्धाहारादीन् श्रुतिभ्यां कुण्डले, शिरसो मुकुटमित्यादीन्यशेषाणि विभूषणान्यमुचत् । तानि सर्वाणि कुलमहत्तरिका हंसलक्षणपटवासला जग्राह । जगाद च प्रभु-भगवन् ! इक्ष्वाकुवंशे जातोऽसि, काश्यपगोत्रोऽसि, त्रिभुवन विदितज्ञातक्षत्रियकुलगगनशशाङ्क ! त्रिभुवनख्यात सिद्धार्थराजपुत्रोऽसि, ज्ञातक्षत्रियया त्रिशलया प्रसूतोऽसि, सुरासुरनरेन्द्रप्रथितकीर्तिको ऽसि, अतएव गौरवं भज, अतितीक्ष्णखड्गधारासोदरं महाव्रतं गृहाण, निरतिचारं संयममव, कैवल्यं विन्द । इत्थं शिक्षयित्वा वन्दित्वा, साऽन्यत्र निरगात् । ततो भगवान् एकया मुष्ट्या कूर्चम् मुष्टिचतुष्टयेन शिरोरुहानित्थं पञ्चमौष्टिकं लुञ्चनं स्वहस्तेनैव कृतवान् । तदादाय देवेन्द्रः क्षीरोदधौ निरास्थत् । एवमपानकेन पष्ठभक्तेन वामस्कन्धे शक्रार्पितदेवदृष्यमादाय, रागद्वेषादिराहित्यादेकः । यथा राज्ञां चतुःसहरूया प्रथमजिनः, त्रिभिस्त्रिभिः शतैलिपार्श्वनाथ, पभिः शतैर्वासुपूज्यः शेषाश्च सहस्रेण, तथा वरमतीर्थङ्करो न केनापि सह प्रववाज, अतएवाऽद्वितीयः । तदित्थं शिरःकूचलुञ्चनेन द्रव्यतः क्रोधाद्यपनयनेन भावतश्च मुण्डितो भूत्वा श्रामण्यं शिश्राय । अथैवं प्रव्रजितो भगवान् यदा सामायिके समस्थित, तदा देवेन्द्रः स्वयं वाद्यादि कोलाहलं न्यवीवृतत् । भगवाँश्च णमो सिद्धाणं ' इत्यभिधाय ' करेमि सामाइयं० ' इत्यादि पपाठ । गुरोरसत्वात् ' भंते ' इति पाठे तु नोच्चारितवान् तीर्थकर्त्तुस्तथैवोचित्यात् । चारित्रग्रहणान
S
4
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org