SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) श्री कल्पसूत्रार्थप्रबोधिनी. प्रतस्थिरे । ततो मोदमेदुराः, सर्वाभरणव सनमण्डितात्मानो, महौजसः, सामन्त प्रमुखा राजन्याः, माण्डलिकाः, कौटुम्बिकाः, महेभ्यपुङ्गवाः सार्थवाहाः, देवा, देव्यश्च मोः पुरतचेलुः । तदनु स्वर्गमपातालवासिन्या परिषदा प्रस्थितम् । विभोः पृष्ठानुगश्च मृग गपरिवृतश्छत्रचामरादिराजचिह्नपरिष्कृतो नन्दिवर्द्धनभूपालः प्रस्थितवान् । तत्राऽध्वनि सर्वतः प्राक् शङ्खक्रधराः गलावलम्बितस्त्रर्णत्रयलाङ्गलधारिणः पुरु. षाः, प्रियोक्तिकुशलाः, मागधाः, महत्तरादिपरिजनाश्च भगवन्तमनुजग्मुः । तदवसरे कुलवृद्धाः शक्रादयश्चैवं सुष्टुवुर्भगवन्तम् भगवन् ! विजयस्त्र, समृद्धिमान्भव, निरवद्यज्ञानदर्शनचारित्रैरज य्यानीन्द्रियाणि वशय श्रामण्यप्राकष्यें तिष्ठ, रागद्वेषौ महाराती च जहि, बाह्याभ्यन्तरतपसा महासिना धृतिमसीमां लभस्व, शुक्लध्यानेनाऽष्टौ कर्मारीन् समुन्मूलय, यथा प्रतिमहं विजित्य कश्चिन्मल्लो विजयध्वजं गृह्णाति तथाऽमुष्यां त्रिलोक्यां कर्मशत्रूञ्जित्वा विजयवैजयन्तीं गृहाण, प्राप्नुहि चानुपमं वितिमिरं समुज्ज्वलं वरकेवलज्ञानम्, निहत्य च परीहपृतनां, परमं मोक्षपदमधिगच्छ । भोः क्षत्रियकुलवृषभ ! जय जय, जगदेकवीरो भवान्, बहुदिवसान्, बहुपक्षान्, बहुमासान्, बहुऋतून्, अयनानि, वर्षाणि च परीषहोपसर्गेभ्यो भीतिमलभमानः, क्षान्त्या वैद्युतसैंहिकादिकं भयं सहताम् । इत्थं शुभवचसा वर्ध्यमानः सुरासुरनरनारीगणनयनसहस्त्रैः पेपीयमानः, श्रेणीकृतलोकानां वदनसहस्रैस्तोष्टृय्यमानोऽमीषां मानसमालासहस्त्रैश्चिरञ्जीवतु चिरं नन्दविति गिरा वरीवृध्यमानो, मनोरथसहस्रैः परस्पृश्यमानोऽहममुष्य सेवकः स्यां चेद्वरमिति चिन्त्यमानो, रूपेण, कान्त्या, गुणैश्च स्वामितया किलेष्यमाणो, लोकानामङ्गलिस हसैर्दरीदृश्यमानः, सर्वेषां नमनाञ्जलीन् गृह्णन्, संत्यजश्च सौधपंक्तिसहस्राणि, वीणातलतालविविधवाद्यनृत्यगीतमधुरालापेन ध्वनिमिश्रित जनता कलरवेण च प्रतिबुध्यमानः सर्वय समुल्लसितः, जय " Jain Education International For Private & Personal Use Only , www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy