________________
पञ्चमं व्याख्यानम् ।
( १२५ )
वधि नभो देवैर्देवीभिश्च व्याकुलमशोभिष्ट । अनारतसन्ताड्यमानभेरी मृदङ्गदुन्दुभिशङ्खादिनानाविधवाद्यनिनादो दिवं भुवञ्चातितरां व्यानशे।
तन्नादं श्रावं श्रावं, त्याजं त्याजञ्चात्मडिम्भानपि, समाव्रजन्त्यः सीमन्तिन्यः स्वीयैर्विविधचेष्टनैर्लोकान् विस्मापयामासुः । भगवद्विलो कने लौल्यं वहन्त्यः कियत्यः कज्जलं कमनीयतमे कपोलतले, नयनयोश्च कस्तूरीविलेपनमकुर्वत । कियत्यश्चपला अबला ग्रीवायां कणमञ्जीरं, पादयोश्च ग्रीवाभूषणं पर्यदधत । काचित्किङ्किणीमुरसि, मुक्ताहारञ्च कटि तटे परिहितवती । कापि गोशीर्षपङ्केन चरणौ, लाक्षारसेन गात्राणि रञ्जितवती । कियती च स्नानं विदधती विभ्रमातुरार्धमेव सस्नौ । काश्चित्स्तनं पिबतः शिशूनपि विहाय त्वरया चेलुः । काचिद्विस्रस्तवसना रसनामेव करकमले दधाना चचाल । काचनतरुणी रुदन्तं स्तनन्धयमपि हित्वा स्थूलातुमेव कट्यामाधाय, त्वरया व्रजन्ती कस्य चित्ते हास्यावकाशं ना व्यधत्त । काचनमहिला भगवन्मुखपूर्णपीयूषमयूखविलो - कनै कलोला विलसत्कपोला स्रस्तानि निपतितानि मणिमयानि विभूषणान्यपि नाऽजानात् । काश्चिदबलाः करकमलतलाभ्यां मौक्तिकव्रजानि किरन्ति स्म । काश्चिदबला मधुरं मङ्गलगीतानि गायन्ति स्म । प्रमुदितास्ताः कियत्यो नरीनृत्यन्ते स्म ।
अथ प्रभोः पुरतः प्राग्ररत्नमयानि स्वस्तिक १ - श्रीवत्स २ - नन्दावर्त्त ३ - वर्द्धमानक ४ - भद्रासन ५ - कलश ६ - मत्स्ययुग्म ७-दर्पण ८लक्षणानीत्यष्टौ मङ्गलानि चेलुः । ततः पूर्णकलशाः, भृङ्गाराः, चामराणि चेलुः । ततोऽष्टशतानि सुसज्जिता महागजास्तुरगाश्चैतावन्तश्च घण्टाध्वजमण्डिताः, शस्त्रास्त्रपरिपूर्णा रथास्तावन्तो वरपुरुषा निर्ययुः । तदनु चतुरङ्गाचमूश्चचाल । ततः सहस्रलघुध्वजपरिष्कृतः सहस्रयोजनोच्छ्रितो महेन्द्रध्वजो निरगच्छत् । ततः कृपाणधराः कुन्तधराः, धनुर्धराः, फलकधराः, विदूषकाः, नर्त्तकाः, नादकाः, गायकाः, जयजयारावं विस्तृणन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org