________________
(१२४)
भीकल्पसूत्रार्थप्रबोधिनी. पितपारिजातसुमदामको, महावस्त्रमुकुटमुक्ताहारकुण्डलोवेयककेयूरोमिकादिसौवर्णिकमहार्हसद्रत्नजटिताऽशेषप्रसाधनप्रसाधितो, नानाजातीय विशिष्टगरिष्ठरत्नजटितकनकाचलोज्ज्वललक्षार्थसिताम्बराऽऽवृतः, प्रभुनन्दिराजनिर्मापितायां, पञ्चाशद्धनुरायतायां, पञ्चविंशद्धनुर्विस्तृतायां, षट्त्रिंशद्धनुरुन्नतायां, शतस्तम्भशोभितायां, मणिकनकविचित्रितायां, दैवि. कमहिम्नाऽनुप्रविष्टसुरकृततादृशचन्द्रप्रभाऽभिधायां, शिबिकायां धृतसिंहासनोपरि प्राङ्मुखो निषसाद । प्रभोदक्षिणे पटशाटकमादाय, कुलमहत्तरिका स्त्री, वामभागे च प्रभोरुपमाता दीक्षोपकरणमाददाना न्यषीदताम् । पृष्ठे चैका रूपतारुण्यपूर्णा, कृतषोडशशृङ्गारा, स्फुरत्ताराकारा, सितातपत्रहस्ता, ईशानकोणे चैका धृतपाणिपूर्णकुम्भा भद्रासने न्यषीदत् । अग्निकोणे चैका मणिमयतालव्यजनहस्ता भद्रासने तिष्ठेत् । तदनु भगवान् सुव्रताख्ये दिने विजयमुहूर्ते प्रशस्यतमवेलायां पूर्वदिग्गामिन्यां छायायामभिनिवृतायाञ्च पाश्चात्यपौरुष्यां (तुरीयप्रहरे ) मार्गशीर्षकष्णदशम्यां प्रव्रज्यायै प्रतस्थिवान् । तदवसरे नन्दिराजनिदेशात्सहस्रं पुरुषास्तां शिबिकां यावद् वोढुमुत्तस्थुः, तावच्छको दाक्षिणात्योबाहामीशानेन्द्र औदीचीमुपरितनी बाहां, चमरेन्द्रो याम्यामधस्तनी बाहां, बलीन्द्र औत्तराहां नीचैस्तनी बाहां, शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्रा ललत्कनकमणिगणोज्ज्वलकुण्डलाद्याभूषणकिरणनिकरदेदीप्यमानाः पञ्चवर्णानि कुसुमानि विकिरन्तस्ताडयन्तश्चोच्चैर्दुन्दुभीन् समुत्पाटयामासुस्तां शिबिकाम् । ततः शक्रेशानौ तां वाहां विहाय, प्रभोश्चामराणि वीजयामासतुः । इत्थमादौ भगवच्छिविकां भव्या नरास्ततो देवेन्द्रा असुरेन्द्रा नागेन्द्राश्चावहन्त । इतरे च सर्वे देवा व्योम्नि वर्तमानाःप्रमोदमानाः केचन ननृतुः, केचिद्वाद्यानि वादयामासुः, अपरे च जयध्वनिमातेनिरे । तत्राऽतसीकरवीरचम्पकादिकुसुमैरुपवनमिव, कल्पतरुपुष्पैनन्दनवनमिव, सुराऽसुरगणनरनिकरैरानगरं भगवद्दीक्षास्थाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org