________________
पचमं व्याख्यानम् ।
( १२३ )
मायाताम् । प्रभोवरस्य मातापित्रोर्विपन्नत्वात् तद्भातानन्दिवर्द्धन एव सर्वमचीकरत् । तत्र प्रथमशालायां भारतीयमनुजेभ्योऽन्नपानादिकं प्रदीत, द्वितीयस्यां वासांसि तृतीयस्यामाभूषणानि प्रदद्यात् । भगवतः करकमलात्तदादाने कस्य किं फलं जायते ? तदाह-चतुष्षष्टीन्द्रा गृहीतभगवद्दानप्रभावेण द्वादशवर्षाणि मिथो न क्लिश्येयुः । नरेन्द्रश्चक्रवर्त्ती वा तीर्थङ्करदानं गृहीत्वा तान् दीनारान् स्वकोशे स्थापयेचेदर्कवर्षाणि कोशः परिपूर्णोऽवतिष्ठेत् । श्रेष्ठिनः सेनापतिप्रमुखाश्च भगवद्धस्तप्रदत्तप्रदानमादद्युश्चेद् द्वादशसमाः कीर्त्त्या महत्या नन्देयुः | रोगिणां रोगाश्च नश्येयुः, द्वादशसमाश्चाग्रे पुनः कोऽपि रोगो नैवोत्पद्येत ।
४६ दीक्षामहोत्सवस्तद्ग्रहणश्च
अथ भगवान् नन्दिवर्द्धनमवोचत-क्षितिपते ! परिपूर्णस्तावकोऽयमध्यवधिः, तस्माल्लामि दीक्षाम् । इत्थं भगवद्वाक्यमाकर्ण्य, नन्दिवर्द्धनो राजा भगवद्दीक्षामहामहं विधित्सुः सकलं क्षत्रियकुण्डपुरं गगनचुम्बनविविधनिकेतनप्रतिवीथिसकला पणराजपथमण्डनकरणादिना सुरपुरानुकारिकारितवान् । ततो नन्दिवर्द्धनः शक्रादयश्च कनकमयान् ?, रूप्यमयान् २, मणिमयान् ३, कनकरूप्यमयान् ४, कनकमणिमयान् ५, रूप्यमणिमयान् ६, कनकरूप्यमणिमयान् ७, मृण्मयान् ८, इत्यष्टजातीयान् प्रत्येकमष्टाधिक सहस्त्रसंख्यामितान् अभिषेक कलशांस्तदितरामपि तदुपयोगिनीं सकलसामग्रीं समपीपदन् । ततो ऽच्युतेन्द्राद्यैर्भगवत्यभिषिक्ते सौरिकास्ते कलशा दिव्यशक्त्या नृपकारितकलशेषु प्रविविशुस्तेन ते कुम्भः अधिकं शुशुभिरे । ततो नन्द्रिराजः प्रभुं प्राङ्मुखमुपावेश्य, निर्जराऽऽनीतक्षीरोदनीरैः सकलतीर्थमृद्भिः समस्तकाषायैश्च भगवन्तमभ्यषिचत । सर्वे शक्रादयस्तदा भृङ्गारदर्पणादिपाणयः पुरतस्तस्थिवांसः । कुर्वाणाश्च जयध्वनिमुच्चैरित्थं सुरेन्द्रे राज्ञा चाभिषिक्तः, सुस्नातो गन्धकाषाय्या रूक्षीकृताङ्गः, सुरचन्दनानुलिप्सोऽधिग्रीवं परिधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org