________________
( १२२)
श्रीकल्पसूत्रार्थप्रबोधिनी. यच्च । सर्वमेतच्छकाऽऽदेशाद्देवाः पिपुरति स्म । एवं वितरणशाली भगवान् सांवत्सरिके दाने सौवर्णिकानामब्जत्रयीमष्टाशीतिकोटिमशीतिलक्षञ्च प्रादित । तच्च प्रत्येकमशीतिरत्तिकामात्रं तीर्थकृतस्तन्मातापितोश्च नाम्नाङ्कितमासीत् । ईदृश द्वादशशतसौवर्णिकैरेको मणो भवति । इत्थमुक्तसंख्यापरिमितैः सौवर्णिकैर्मणानां नवसहस्राण्यभूवन् । साम्प्र. तन्त्वेकस्मिन्ननसि चत्वारिंशन्मणा निक्षिप्यन्ते, तर्हि नवसहस्रमणानां सपादशतद्वयशकटान्यभवन् । तथा चोत्प्रेक्षितवन्तः कवयः .
यदीत्थं भगवद्वारिवाहसुवृष्टदानवारिपूनिमग्नदारिद्यदावानलास्तेमार्गणगणाः सजितगजवाजिराजिवसनमण्डनैस्तत्कालवैलक्षण्यमापन्ना दुर्लक्ष्यतां नीता गृहमागताः शपथादिना निजस्त्रियमात्मानं प्रत्यापयामासुः । क्वापि कोऽपि दारिद्र्यदुर्दशयो मापि नाऽशृणोत् । विहाय च लोकान् भगवदम्बुदवृष्टदानजलधिनिमज्जनभिया मार्गणतापि धानुष्कानां शरेष्वेव गत्वा न्यवसत् । भगवतः पाणितस्तद्दानं भव्याः सदाचारिजना एव लेभिरे, न केचिदभव्याः । सर्वमेतच्छकेन्द्राऽऽदिष्टवैश्रमणनिदेशवर्तिनः सुरा दैव्या शक्त्याऽष्टसमयादेव समुत्पाद्य, प्रभोः सद्मनि पूरयन्ति स्म । प्रभोः करकमले च सौधर्मेन्द्रस्तां शक्तिमदात्-ययेत्थमेतावतो दीनारान् प्रतिघनमर्थिसात्कुर्वाणो भगवान् मनागपि नैव शश्राम । ईशानेन्द्रस्तु सद्रत्नजटितां सौवर्णी वृष्टिं विदधत्, चतुष्षष्टीन्द्रान् सामान्यानन्याँश्च देवान् दानलिप्सून् निवार्य, भगवदानार्थिनां नृणां यस्य ललाटे यावती लब्धिरासीत् , तेनार्थिना तावन्मात्रमेव मार्गयामास । चमरेन्द्रवलीन्द्रौ च भगवन्मुष्टौ समायातमधिकं देयं पश्चादादद्याताम् , अल्पञ्चेत् पिपृयाताम् । भुवनपतयो देवा भारतवासिनो शेषार्थिजनानन्वेषमन्वेषमानयन्ति स्म । वाणव्यन्तरास्तु तान्मनुजानार्थनः स्वस्वस्थानं नयेयुः । ज्योतिष्कलेखा भगवद्दानाऽऽदानाय विद्याधरानाकारयेयुः । एतस्मिन्नवसरे तीर्थकृतां मातापितरौ महीयसी शालात्रयीं निर्मि
पमन्वेषमानयन्ति निकलेखा भगवदानाहासी शालात्रयीं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org