SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पञ्चमं व्याख्यानम् | ( १२१ ) प्रमुखा राजपुत्रा, नाऽसौ भविता सार्वभौमः, किन्तु तीर्थप्रवर्त्तक इति निश्चित्य, स्वस्वस्थानं जग्मुः । ४४ लोकान्तिकदेव कृतप्रतिबोध: इत्थं गृहे तिष्ठतो भगवतो वत्सरमेकं व्यत्यैत् । यदा द्वितीयो हायनः प्रावर्त्तत, तदा ब्रह्मदेवलोकवासिनः सारस्वता १, आदित्या २, वह्नयो ३, वरुणा ४, गर्दतोयाः ५, त्रुटिता ६, अव्याबाधा ७, आग्ने या ८, अरिष्टाः ९, एते नवलोकान्तिका देवा आगत्य, भगवन्तमनवरतं प्रणमन्त इष्टैर्मधुरैर्वचोभिः स्तुवन्तः समेधयन्तः- भगवन् ! विजयस्व मङ्गलसदन ! भद्रमस्तु ते जिनेशो भव, सकलजगज्जनहितं निःश्रेयस्करं धर्मतीर्थं प्रवर्त्तयेति प्रतिबोधयामासुः । यद्यपि प्रभुः स्वत एव प्रतिबुद्धस्तं प्रतिबोधकरणं पिष्टपेषणमेवाऽभूत्, तथापि लोकान्तिकदेवानां शाश्वती मर्यादा वर्वर्त्ति खल्वेषा, यथा दीक्षावेलातः प्रागेव स्वयं बुद्धमपि प्रभुं प्रतिबोधन्ति । ४५ वार्षिकदानवर्णनं तन्मानञ्च - 5 श्रमणस्य भगवतो महावीरस्य गार्हस्थ्येप्यनुत्तरमवधिज्ञानमवधिदर्शनं किलाऽऽसीत् तेन च दीक्षाकालमवगत्य, विपुलधनकनकरत्नमणिमौक्तिकशङ्खप्रवालादिसर्वं राज्याद्युपभोगक्षमं लोष्ठबदत्याचीत् । अस्थिरत्वात्सर्वमेतद् गर्हितमिति व्याहरन् गुप्तमगुप्तञ्च सकलं साराऽसारभूतं धनमस्मा इदं देयमेतस्मा इदमिति विभागशो गोत्रिकेभ्यो याचकेभ्यश्च समागतेभ्यः प्रदाय, दीक्षादिनादवशिष्ट प्राग् वत्सरे वार्षिकं दानं प्रारब्धवान् प्रभुः । तच्च प्रत्यहं सूर्योदयाद् भोजनवेलावधिके सपादप्रहरात्मके काले सौवर्णिकानामष्टलक्षाधिकां कोटिं दातुं लग्नः । ' येन यावन्मात्रं यद्याच्येत तस्मै तत्तावदेव दास्यामि' इत्थं सर्वत्र समुद्घोषमकार १६ Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy