________________
( १२०)
श्रीकल्पसूत्रार्थप्रबोधिनी युषोः प्रवजितुमना ज्यायांसं नन्दिवर्धनं बान्धवमेवमानातवान्बन्धो ! यावन्मे मातापितरौ जीवेतां तावन्मया नो प्रबजितव्यमित्यहं पुरा प्रत्यजानाम् । तौ चेदानी व्युपरतो, अतएव साम्प्रतं प्रवजितुं मामनुजानीहि । नन्दिवर्द्धनोऽवदत्-भ्रातः ! किमेवं व्रणोपरि क्षारं क्षिपसि ?, यदधुना मातापित्रोवियोग एव मां महास्फोटप्रायो भृशं बाधते, तदुपरि त्वद्वियोगस्तु नूनं क्षारक्षेप एव भविता। तयोरपि शोकोऽधुना नाऽगात् , तर्हि कथमनुजानामि त्वां प्रबजितुम् । भगवानुवाचबान्धव ! मातापितृभ्रातृपुत्रकलत्रादयस्तु जीवानामनन्तवारमभूवन् , भवितारश्च । सर्वाश्चैतान् विमुच्यैक एव जीव आयाति, निर्याति, एक एव च कृतं शुभाऽशुभङ्कर्म भुङ्क्ते, अतः कोऽपि कस्याप्यात्मीयो नास्ति, तर्हि कं कं शोचानि, प्रतिबध्नानि वा केन केन सत्रा। नन्दिवर्द्धनोऽजल्पत्-सर्वमित्थमेवास्तीति विदन्तमपि मामिदानीं मोहनीयकर्मप्राबल्यमधिकमधारयति, ततस्ताव वियोगं सहितुं नैवाऽर्हामि । अत इदानीं दीक्षाऽऽदानं विहाय, वर्षद्वयमपि गृहे स्थीयताम् । तच्छ्रत्वा, पुरुषोत्तमत्वात्परदुःखाऽसहिष्णुत्वाच्च भगवान् नन्दिवर्द्धनाऽऽग्रहमुरीचकार । जल्पितवाँश्चैवम्-वन्धो ! भवदनुरोधाद्धायनद्वयं प्रासुकाऽशनपानादिनैव स्थास्यामि । अतो मदर्थ कमप्यारम्भं माकार्षीरिति सहर्ष नन्दिवर्द्धनोऽपि मेने । तदनु वर्षद्वयं वस्त्राभरणादिकं बिभ्रदपि प्रासुकैषणीयमाहरन् , अचित्तं वारि पिबन् भगवान् गृहवासमध्यवास। तदिनादेवाचित्तेनापि जलेन सर्वाङ्गं न सस्नौ, पर्यपालयच्च ततःप्रभृति ब्रह्मचर्यम् । दीक्षाकाले तु सचित्तवारिणैव स्नातवान् भगवान् । अथैवं प्रभु संसारविमुखं विलोकमाना, असौ चतुर्दशस्वप्नैर्जातो भविष्यति चक्रवर्तीति धिया भगवतः सेवायै समायाताः श्रेणिकचण्डप्रद्योतन
सूत्रटीकायान्तु निरशनेनाऽच्युतदेवलोक गमनं प्रत्यपादि । तयोविरोधपरिहाराय चतुर्धात्मकेदेवनिकायेषु तुरीयं वैमानिकदेवनिकायमित्यत्राऽऽवश्यकोक्तेस्तात्पर्यमाख्यातव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org