SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पञ्चमं व्याख्यानम् । (११६) पतित्वा जजल्प-भगवन् ! त्वं खलु वामयाऽपारसागरपारदृश्वा वर्त्तसे। अहमपूर्णकलशकल्पोऽस्मि । अतस्त्वमेव गुरुरसि, नाहमित्थं ब्रुवते पाठकाय घनं दानमदात्प्रभुः । ततो मातापितृप्रमुखाः सर्वे परिजनाः प्रमु. दिता भवन्तः प्रभुं प्रागवकरीन्द्रोपरि समुपावेश्य स्वभवनमनैषुः । ४२ भगवदुद्वाहतत्परिवारकीर्तन--- ___ अथैवं शैशवेन समुज्झिते तारुण्येन समाश्रितं वर्द्धमानं मातापितृभ्यां शुभमुहूत्र्ते, समरवीरभूपस्य यशोदा नाम्नी तदनुरूपगुणशीलाकृतिः पुत्री महामहेन पर्यणीयत । तया सह सुखमनुभवतो भगवतः पुत्री जज्ञे । ताञ्च प्रवरनरपतेः पुत्राय जमालथे ददिवान् । साऽपि शेषवतीनानी तुतां सुषुके । इत्थं भगवतो पार्हस्थ्येऽष्टाविंशतिवर्षाणि व्य. तीयुः । समवतः पैत्रिक गोत्रं काश्यपमासीत् । सिद्धार्थः, श्रेयांसो, यशस्वीति पितुस्त्रीणि नामानि प्रख्यातिनगुः : माता च वशिष्ठगोत्रोत्पन्ना त्रिशला, विदेहदिला, प्रीतिकारिणीति नामत्रयं दधानाऽऽसीत् । पितृ व्यश्च सुपार्श्वनाभाऽभूत् ! ज्यायान् बन्धुरासीन्नन्दिवर्धनः । सुदर्शना. ऽभिधाना स्वसा । कौण्डिन्यगोत्रजा यशोदा पत्नी । पुत्री च काश्यपगोत्रा प्रियदर्शनाऽक्षोद्या इति द्वे नाम्नी विभ्राणा । दौहित्र्याश्च काश्य. पगोत्रं शेषवती यशस्वीति द्वे नाम्नी जज्ञाते। ४३ श्रीक्षोद्यतस्यापि वीरस्य भ्रात्रनुशेषाद् गृहस्थिति:---- अथ सकलकलाकुशलः, सत्प्रतिज्ञः, निःसीमसौन्दर्यवान् , विनयवान् , अतिसरलः, कान्तिमान् , त्रिभुवनप्रख्यातिमान् , सकलमहीतलप्रख्यातसिद्धार्थराजसूनुः, सुधामयूख इव त्रिलोकी विद्योतकः, कुलकमलदिवाकरो, वज्रऋषभनाराचसंहननः, समचतुरस्त्रसंस्थानः, गृहवासे मृदुतरगात्रः, दीक्षानन्तरं तु परीषहसहनशीलतयाऽतिकठिनः, त्रैशलेयः, श्रमणो भगवान्, महावीरोऽष्टाविंशतितमे हायने मातापित्रोर्देवत्वमुपे. १ भगवन्मातापित्रोरावश्यकसूत्रटीकायां तुरीयदेवलोकगमनमभिहितम् । आचाराङ्ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy