________________
(११८)
श्रीकल्पसूत्रार्थप्रबोधिनी. 'हा होलो हरिणे कलो' एष मोहपारधिः पाशं वितत्य जीवमृगं गृह्णाति, इति हेतोस्तदीयां विस्तृतां मायालक्षणां वागुरां विलोक्याऽतिदूरं पलायस्व । नो चेन्मृगयुन्ना विततवागुरायां पतितकुरङ्ग इब त्वमपि मोहपाशनिपतितो भूत्वा, संसारवन्धनाजात्वपि नैव छुटिष्यसि । ५३ 'लाये लच्छी दो पणिहार' चेन्मोक्षाभिलाषं बिभ्रदिदं संसारबन्धनं छेत्स्यसि, तर्खेका द्रव्यलक्ष्मीरपरा भावलक्ष्मीश्च ते जलमाहरिष्यतः । इदमन रहस्यम्-यत्वमनुत्तरविमाने देवत्वेनोत्पत्स्यसे, मर्ये वा चक्रवर्तित्वेन जनिध्यसे, तर्हि भरतादिवद् द्रव्यलक्ष्मीफलमुपभुज्य, कैवल्यमासाद्य मावलक्ष्मीमपि भोक्ष्यसे । ५४ - खडिया खाटक मोर पाले यांध्या बे चोर' अस्मिन् संसारे पटकाधिकजीवानां ये ज्ञानादयो गुणा वत्तन्ते, तेषां बिलुण्टनाय, द्वौ रागद्वेपलक्षणाववसरं प्रतीक्षमाणौ लुण्टाको तिष्ठतस्तावुभौ गृहीत्वा, तथा समुन्मूलय, यथा कर्ममहीरुहः पुनर्नो प्ररोहेत् । समूलमेतो समुच्छिद्य, चत्वारि घनघातिकमाण्यपि पातयेथाः, यथाऽऽशु निर्बाधं कैवल्यश्रिया जुष्यमाणः, प्रान्ते समाधिना शैलेशीकरशेन शुक्लध्यानस्य तुरीयपादे समारूढः, कार्मणशरीरं विहाय, विधूतक्रियस्त्वं मिद्धजीवानां गौ मेलितासि । ५५ 'मंगलमहाश्री दे विद्या परमेश्वरी ' ततो मङ्गलमया भावलक्ष्मीमधिगन्तासि । अोदननन्तज्ञानदर्शनचारित्रवीर्यो भवितासि । अगुरुलघुः, अरूपी, परि पूर्णः, अविनाशी च स्वतो भविष्यासे । ईदृशीं मङ्गलमयीं लक्ष्मीगधिगत्य साद्यनन्तभागं यावदजरामरीभूय, शाश्वतं परमानन्दस्वरूपेण स्थातासि, इति भले प्रकरणम् ।
लोकाश्चाष्टवर्षीयसोऽपि महावीरस्येदृशीं विद्वत्तामालोक्य वि स्मिता अभूवन्- अहो ! सर्वविद्भूत्वापि मनागप्यहङ्कतिं नो दधाति इत्थं भगवन्तं प्रशंसतो लोकानाचष्ट शकेन्द्रः-भो भो लोकाः ! यूय मेनं प्राकृतं बालं मा विदाङ्कुरुत, किन्तु त्रिलोक्या अधिपतिमवग च्छत । अयं खलु सर्ववित्सर्वदर्शी भवज्ञापि सागरवन्महागम्भीर वर्वति, परमपृष्टः कमपि किञ्चिदपि नैव भाषते, न वाऽऽडम्बरी विद्यते ये महीयांसो भवन्ति, तेऽवश्यं प्रावृट्कालीना घनपटला इव स्तोक मप्यात्मश्लाघादिकं नैव कुर्वन्ति, क्रियामेव दर्शयन्ति । बाह्याडम्बरो ऽप्यसारस्यैव दृश्यते-असारत्वात्कांस्ये यादृग्ध्वनिर्जायते तादृगसारत्वा त्स्वर्णे जातुचिन्नैव जायते । इत्थं भगवतो वर्द्धमानस्य स्तुतिं विधाय शकेन्द्रः स्वस्थानं प्राप । तत्रावसरे स उपाध्यायो वीरविभोश्चरणयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org