________________
पञ्चमं व्याख्यानम् ।
(११७) चिनु, यतो हि बीजे प्रवृद्ध. हृदयगगने ज्ञानेन्दुरुदेष्यति । ४३ ' अब्भो भारी मेंसको' यथा पशुः सचित्ताऽचित्ततृणभक्षणेन कुक्षि पुष्णाति, तथा द्वाविंशत्यभक्ष्याणां द्वात्रिंशदनन्तकायिककन्दमूलादीनामशनेन महोदरो माभूः, कदापि च रोगादिकैः प्रवतितोऽपि माघम: ! सुश्रावकोऽर्हन्त्रक इब बहुधा चालितोऽपि माऽचालीः, परैर्देवादिभिर्वा क्लेशितोऽपि मनागपि माखेदी, सदैव मनो दाढ्यं नयेथाः, व्रतनियमादिनाऽहंयुर्वा माभूः । अथवा 'भभीयो भाटचूलतरो' यथा महानसीया चुन्हिका धगद्धगिति प्रज्वलति, तथा त्वमसमर्मवेधिनापि यस्य फस्याऽऽक्रोशवचसाऽन्तरुद्भतक्रोधाग्निना धगद्धमिति माज्यालीः, अर्थात क्रोधं जह्याः । ४४ ' ममियो मोचक' अष्टौ कमाणि त्यक्त्वा मोक्षमार्ग भजन । ४५ ' यर्ययो जाडो पेटको' अस्मिन् संसार कृतान्तः खलु महोदरो वर्ति, सकलं जगदपं ग्रसति, तदप्येतस्योदरपूर्ति! जायते, अतस्त्वं तस्माद्विभीथाः, कदापि धर्मकृत्ये प्रमादं माकृथाः । ४६ 'रायरो कटारमल्ल ' इह हि रामद्वेषरूपों द्वौ महामलो वर्तेते, तयो रागश्च द्विविधोऽस्मि-एकः प्रशस्तः, अपरोऽप्रातः । उभावपीमो जिता, लघुकर्मिको भूत्वा, केवलज्ञानमुपार्जिष्यसि चेत् , अवश्यमाशु शाश्वतं सुखमनुभविष्यति। ४७ 'लल्ला घोडोला' अत्र संसारे महीयानेष लोभलक्षणस्तुरङ्गमः सातत्येन विचरति तत्राऽऽरूढं पुमांसं भृशं खुरप्रहारेर्जर्जरयति, अतस्त्वं तदन्तिकमव्रजन् विदुरमेव सावधानतया तिष्ठ । ४८ 'वच्चा विंगण वासदे' सन्ति चात्र कामादिषटका महाचौरास्तान् हृदयसदने मा वासयेः, वासयितासि चेदवश्यमेते सकलमप्यात्मोज्ज्वलगुणात्मकं धनं चोरयिष्यन्ति । ४६ — शशा कोटा मरडीया' यथा शशकः स्वकर्णाभ्यां छन्नो भूत्वा, तुन्दपरिमृजो जायते, तथा कुमतादिनाऽऽवृतो भवन् धर्मेऽलसो माजनिष्ठाः, नो चेत्तमपि पापीयानिव दुर्गतिं यास्यति । अवश्यमेकदाऽयं यमराइ गलग्राहं शराकमाखेटीव त्वां हनिष्यत्येव, अतो धर्मोद्यमी भवतु भवान् । ५० षषा खूणे काडिया' रे जीव ! सत्यमेव वक्तव्यम् , अलीकं तु प्राणात्ययेऽपि मावोचथाः । यतो मृषावादिनां माहात्म्य सर्वत्र होयते, वचोऽपि तेषां लोकेषु श्रद्धेयं नो भवितुमर्हति । यथा घटे क्वचित्किञ्चिदपि रन्धे समुत्पन्ने तदन्तःस्थं सकलं वारि क्रमशो बहिर्याति, झोलिकाकोत्थलकादौकचिदेकस्मिन्नपि कोणे स्फुटिते तदन्तः स्थापितं सर्व यथा क्रमशो निर्गच्छति, तथा मिथ्यावादिनामपि समस्ता व्रतनियमादयो गुणाः क्रमशो निर्गच्छन्त्येव । रहसि कृतमपि पापमायतौ सर्वेषामुदितं सत्फलत्येव, अतस्तदपि त्रिकरणैर्वर्जनीयमेव । ५१ 'सारसे दन्ती लोक' चेदमुना मोहराजेन साकं योधनं चिकीपुरसि, तर्हि दन्तावल इव साहसं विभृयाः, अर्थात्प्रवर्त्तमाने योधने सर्वतः पुरःसरन्मातङ्गः परेषां पुरे कपाटं कोट्टं यथा भनक्ति, तथा त्वमपि मोहराजस्य मिथ्यात्वलक्षणं दुर्ग भधि । ५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org