________________
(११६)
श्रीकल्पसूत्रार्थप्रबोधिनी. स गुरुः सर्वथा सेवनीपस्तद् गौरवश्च वितनितव्यमेव । २३ 'घघो घरट पलायो जाय ' रे जीव ! समस्मिन् संसारे पुनकलत्रगृह परिवारादिसमारम्भभारेण दिवानिशं खिधसे, स एष गुरुस्त्वां तद्भारान्माचयिता । २४ 'ननीयो आमण दूमणो' स गुरुत्ते गृहभारोत्थदुःखापनोदनाय यत्पश्चाणुव्रतं पञ्चमहाव्रतं वा स्वीकारयाञ्चकार, तत्क्लेशात्पश्चात्तापं माकृथाः । २५ ' चच्चा चीनी चोपडी' गुरुदत्तचारित्रपरिपालने सदैव समुत्सहस्त्र, जात्वपि प्रमादं मागाः। २६ 'छछो वदिया पोटला' छद्मस्थत्वेऽपि गुरु म पे तिष्ठन्छूतज्ञानचतुर्दशपूर्वविद्यानां पोट्टलिका बधान, ज्ञानाऽभ्यसनं चाऽधिकं कुरुष्व । २७ ' जजो जेसल वाणीयो' रे जीव ! एतां शन्यत्रयीमुज्झ, येनाऽऽशु सुखमनु पविनासि । २८ ' झज्झो झारी सारीखो' रे जीव ! त्वमत्र लोके झारीतल्यो भव, यथाऽयं स्तोकमुखो, विपुलोदरो भवति, तथा त्वमपि स्याः, श्वत् परेषां दोषान्माऽवादीः शृणुयाश्चेदुदरान्तरेव स्थापय । २8 अजीयो खाडो चांदो' अर्धचन्द्राकारे तत्र सिद्धशिलासदने गमनाय, निरतिचारं चारित्रं परिपालयन्, सदैव सावधानमना एधि । ३० 'टहा पौली खांडेषु ' गुरूणामग्रे यव्रतनियमादिकमगृह्णोथास्तदतिचारादिदृषितं मा कुर्याः । ३१ 'ठट्ठा ठोवर गाडूओ' भग्नकलश इव माभूः, किन्तु गुरुदत्तां श्रौती शिक्षा हृदयकलशे यत्नेन संगृहाण । ३२ 'डड्डा डामर गांठे' बहिराडम्बरीभूयाऽन्तष्कर्मणां ग्रन्थि मा बधान । ३३ ' ढड्डा मुणो पूंछे' श्वपुच्छन्द्वक्रतां मा भविष्टाः, किन्तु सदा सर्वत्र सरलेनैव भाव्यम् । ३४ ‘णणो ताणो सेले' रे जीव ! दुर्जयेन बलीयसा मोहराजेन सत्रा युयुत्सुर्घभूषसि चेज्ज्ञानदर्शनचारित्रत्रिपुटीलक्षणं कुन्तास्त्रं सदैव पाणी धरस्व । ३५ ' तत्तो तावे तेले' जपतपःप्रमुखतपस्यां विदधत्कस्यचिदाक्रोशनगिरा सन्तहतैलवदुष्णतां मायासीः । ३६ ' थत्या थे रखवालो' यदि ते कदाचिन्मनोवशे नाऽऽगच्छेत्, तदपि कायवचसोः स्थैर्य करणीयमेव । ३७ ' ददियो दीवटो' त्वमवश्यं सदैव जाज्वल्यमानेन सम्यग्दर्शनस्वरूपदीपकेन स्वकीयहृदयसदनं प्रकाशपन्, सर्वेभ्योऽनुकम्पा ददीथाः, इन्द्रियाणि च दमयेथाः ३८ 'घद्धीयो धाणको' धनानामर्जनं परिग्रहसंचयकरणं वा मनसि माऽचीकमथा, केवलं धर्मधन एव मनो युधि । ३६ ‘ननीयो पुलायरो' नास्तिकोन भद्रत्वेन वा सम्यक्त्वरत्नं जात्वपि नैव गमयेथाः, तच्छथिन्यं माकृथाः। ४० ' एप्पा पोली पाटे' यान्येतानि पापहेतुभूतानि पञ्चेन्द्रियाणि तान्याश्रवद्वाराणि महानर्थकराणि मत्वा, संवररूपकपाटदानेन पिहितान्येव कुरुष्व, बहिश्वराणि माकृथाः, नो चेदष्टादशपापस्थानानि त्वदन्तः प्रविश्य, महानर्थमुत्पादयिष्यन्ति । ४१ 'फफा फगडे जोडे ' अविदुषा, दुराचारिणा, दुर्व्यसनिना, मिथ्यात्विना, पापिना, वा सह मा सङ्गच्छस्व । ४२ 'बब्बा मांहे चांदणुं' हृदयभवने बोधिबीजमधिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org