________________
पञ्चमं व्याख्यानम् ।
(११५) तन्मोहितोऽयमाप्मात्संसारात्कदाचिदपि नव निर्गन्तुमर्हति । ( मेरी राणी चोकडी' यन्मोक्षसदनमारोटिणां प्राणिनामधिमागं चत्वारः कषाया निरुन्धन्ति, बहवो जीवास्तन्मार्गमधिल्ह्यापि तैवश्चिताः पश्चादेव परावर्त्तमाना नानायोनिषु भ्रमन्ति । ये चतु. रास्ते कथमपि कषायानेतान ज्ञानामसिना छिचा तदाप्नुवन्ति । १० ' पाछी चार कुंडावली' यदि इमेकादशं गुणास्थानात्मकं सोपानं तत्राऽऽरूढमपि जीवं बलादुत्तार्य, चतुर्गतिकऽस्मिन् संसार एव निपातयन्ति ते कषायाः । ११ 'ढाउं ढाउं डोकलो माथे बे छोकरो' रे जीव ! त्वमस्मिन् संसारे धावं धावं भूयो भूयो गभांगारे निपत्य, नानाविधशोकदुःखाग्निना दिवानिशं पापच्यमानः पुत्रकल मादिकृतां कदर्थना सहिष्यसे । यदि धर्मसार्वभौम मोक्षराजं दिक्षुः सिद्धनगरी जिगमिषास, तर्हि प्रथम तदीयं सम्यक्त्वनामानं महामन्त्रिणं मिल, स एव त्वां तं सङ्गमयिष्यते । १२ 'हारमा डांगडी ' यः सम्यक्त्वमहामन्त्री कीर्तितस्तत्सदनमपि गच्छतो जीवान्मार्गे कपायलुण्टाको लुण्टति र हिंगितुं, धर्मशाख्यं यथाप्रवृत्तिकारणं विधायाऽधूर्वकरणस्य शुभपरिणामलक्षणमहायष्टिं पाणिना चावाय, १३ ' आइडा दो भाइडा बडो भाइ कानो' रागद्वपलक्षणावुभौ भ्रातरौ निहत्य, तदन्यानपि सप्तप्रकृतिरूपाँचौरान हत्वाऽपूर्वकरणरूपमहायष्ट्यैव मिथ्यात्वग्रन्थिमपि भङ्क्त्वा , तदने गत्वा, रूपपञ्चकेन तत्र वत्तमानं महामन्त्रिणं द्रक्ष्यसि । दनु तत्सेवायां वर्तमानं त्वां योग्यं मत्या, १४ ' इाडे केवली ईडि उकरू' तस्य धर्मचक्रिण एकदेशविरतिनाम्नी लघुपुत्रीं सर्वविरतिनाम्नी ज्येष्ठपुत्रीश्च त्वया परिणाययिष्यति । अनवरतमेकाग्रमनसा सम्यक्सम्यक्त्वमत्रिणं जोषिष्यसे चेत् , तद्यैव स प्रसत्स्यति नान्यथा । १५ ' पात्रो पात्रो आँकोडा बडे आँकड फाकोडा' शङ्काऽऽकासाकपायरूपा महती शृङ्खलाऽस्ति, तां मनागपि स्प्रक्ष्यसि चेत् , स भृशं त्वयि शङ्कमानः खत्स्यते ततस्त्वां हास्यति । १६ 'नोले तोडवे कांढोला वडे' तत्र विषयकपायस्वरूपे ममतामायारूपे वा द्वे विषवल्ल्यौ वर्तेते, शयाते च तत्र कामभोगलक्षणो विलेशयो । तयोश्चाऽजागरणेनाऽकोपनेन च सुप्रसोदनेर सम्यक्त्वमन्त्री ते मोक्षगमनाय सहयायिनःयिष्यति । १७ ' एनवेन ये गाडी' समितिगुप्तिरूपरथोपरि त्यामुपावेश्य, १८ 'ओ रखवाला बलदिया' ज्ञानचारित्ररूपौ द्वौ वृषभौ तत्र योजयित्वा 8 अमीया बे रासडी ' संवरनिर्जरारूपातिदृढतररज्जुभ्यां बद्धा रथं सञ्चालयिष्यति । २० 'कको केवडो' परन्तु केवलज्ञानरूपरक्षकपुरुषं विना कोऽपि तां सिद्धिनगरीमधिमन्तुं नैव कल्पते. स चाऽनाहारिकमार्गणया प्राप्यते । २१ 'खक्खो खाजलो' अतस्त्वं चतुर्विधमाहारं जहाहि, रमनेन्द्रियलोलुपो माभूः । २२ 'गमा गोरी गाय वियागी' अनाहारिकमार्गणायास्तपःप्रमुखाया दर्शयिता च गुरुरेव भवति, अतएव महोपकारित्वाद् गुरोभक्तिः कत्तेव्या, यो गुरुरनुमपारसंसारसागरं सुखेन सन्तरीतुं, बोधिवीजस्वरूपं महापोतमर्पयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org