________________
( ११४)
श्रीकल्पसूत्रार्थप्रबोधिनी यथा नो जावेत. तथा यतितव्यमित्यवधार्य, विप्ररूपेणेन्द्रेण प्रभोः समीपमागत्य, तमुपाध्यानमुच्चासनादधो निपात्य, भगवन्तसुच्चैस्तमसिंहासने समुपादेश्य, प्रागुपाध्यायदेव गूढतरान् कियतो विषयान् पप्रच्छ । परमज्ञत्वादेकस्याऽप्युत्तरं दातुं स नैव प्राभूत् । ततो विप्ररूपधरः शक्रः सकलजनसमक्षं तानेव विषयान् भगवन्तमप्राक्षीत् । भगवाँस्तु सर्वस्योत्तरमसंशयं चक्रिवान् । एतदत्यद्भुतं विलोकमानः स पाठकश्चमत्कृतो मनसि दध्यौ-यान् प्रागनेकधा भूयांतो विद्वांसः पृष्टा अपि नैव सनादधिरे, तानपि लन्देहान् बालोऽयं निरास । तन्मन्ये ! साक्षाच्चतुर्मुखः सरस्वती का पुंभावमधिगता कश्चित्सर्वज्ञजीवो वा, नो चेत्कथमेष शैशव एव सर्वं वेत्ति ? : शक्रेन्द्रः खलु भगवन्तं शब्दानामुत्पत्तिमपृच्छत् , तदा भगवान् संज्ञा, परिभाषा, विधिनियमः, प्रतिषेधोऽतिदेशोऽधिकारोऽनुवादो, विभाषा, निपात इति दशधा सूत्राणि तदर्थांश्च प्ररूपयामास । तत इन्द्रो वृत्त्यादिना विस्तार्य जैनेन्द्रव्याकरणमकरोत् ।
पुनः सर्वजनसमक्षं विप्ररूपधरः सौधर्मेन्द्रः सर्वान् विस्मापयन्, भगवन्तं ' भले' इत्येतदर्थमप्राक्षीत् । भगवानप्युवाच-१बे लीटी' द्वौ जीवो वर्तते-एकः सिद्धो निष्कर्मा, द्वितीयो जीवः संसारी सकर्मा । २ ' भले 'रे जीव ! सिद्धजीवराशिमवि. तुमिच्छ । ३ भीडूं' इति बिन्दु व्यनक्ति, अयं हि संसारोऽतिवर्तलाकारो गम्भीरतरः कूपोऽस्ति, अस्माच्छिद्रमार्गेण नित्य, जीवोऽयं सिद्धराशि मिलति । ४ 'पिलाडी' लोकप्रसिद्धा लोहमयी बिलाडी यथा कूपान्तः पतितवस्तूद्धरणाय प्रधानसाधनं वर्तते, तथाऽमुष्य जीवस्य संसाराम्बुधेनिर्गन्तुं, देशविरतिसर्वविरती साधने स्तः । ५ 'ओगण चोटिओ माथे पोठियो' यचतुर्दशराजलोकस्याधोलोकमर्त्यलोकोप्रलोकमयी भागत्रयी कृतास्ति । तत्रो_लोकस्य शिखास्थानीभूता द्वादशयोजनविस्तीर्णा सिद्धशिलाऽस्ति । तत्र योजनस्य चतुर्विंशतितमांशभूतत्रयस्त्रिंशदधिकत्रिंशद्धनुरुपरि द्वात्रिशदङ्गुलप्रमाणलोकाकाशोपरि सिद्धजीवा निवसन्ति । ६ ' नमो बीटालो' रे जीव ! नूनममुष्मिन् संसारे क्षणिकेवास्तवे विषयोपभोगे भक्ष्यसि चेदवश्यमधोगति लप्स्यसे । ७ 'ममो माउलो' एष संसारो जीवस्य शाश्वतं सदनं वर्तते, तत्राऽमुष्य मोहनामा मातुलो निवसति सपरिवारः । ८ 'ममा हाथ बे लाडुवा' स मोहात्मको मातुलो जीवस्य करे कामभोगलक्षणो मोदको दत्त्वा तथा प्रतारयति, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org