________________
पञ्चमं व्याख्यानम् ।
(११३) प्रवेशयितुं, विपुलधनव्ययेनातिप्रौढतरं महोत्सवं व्यतन्वाताम् । तथाहिसकलस्वजनमण्डलं, नरपालगणं चामन्त्र्य, सम्भोज्य, मत्तनात नात्याश्ववजैरथैर्महार्हमणिरत्नभासुरैरङ्गदैौक्तिकहारैः, सद्रत्न जटितैर गुलीयकैः, कुण्डलवलयप्रमुखैराभरणैः, पञ्चवर्णेश्चीनांशुकैश्च सत्कृत्य, पण्डितयोग्यदेयानि विविधरसनमण्डनश्रीफलप्रभृतीनि । लेखनशालीय समस्तशिशुगणेभ्यो भक्षणाय पूगीफल-शृङ्गाटक-खजूर-सितोपल-बदामखारकप्रमुखमनःप्रीतिकराणि विविधानि खाद्यानि, रत्नमयस्वर्णलप्यमयानि पुस्तकोपकरणानि, अतिसुन्दरमषीपात्रलेखनीपट्टिकाप्रभृतीनि, सरस्वतीपूजायै विविधरत्नजटितां सौवर्णी विभूषां कौशेयशाटिकाँदीश्च, छात्रेभ्यो वितरणाय विविधवसनादीनि च सर्वाणि लात्वा, कुलवृद्धस्त्रीभिः सुभगाभिर्गीतं गायन्तीभिस्तीर्थवारिणा स्नपित, वसनैरलङ्कारैरशेषैर्मण्डितकपुपं. वर्द्धमानकुमारं, शिरति धृतसितातपत्रं, चतुश्चाम-ज्यमानं, चतुरङ्गचमूपरिवृतं, सततनानद्यमानचतुर्विधधादित्राऽऽरावमुखरीकृताऽऽशमनुगतसामन्तादिपरिजनैर्जुष्टं, पण्डिताधिगेहमानिन्याते। ४१ विप्ररूपेण सुरेन्द्रकृतवृच्छा, भले प्रकरणस्य व्याख्या -
उपाध्यायोऽपि राजपुत्राध्यापनोचितवसनविभूषणाऽऽसनादिना सज्जितो यावदभृत् , तावच्छकस्यासनं चलाचलमध्यजायत । तेन शक्रेन्द्रोऽवधिप्रयोगेण तत्कारणमवेदीत् , अवादीद्देवान्-अहो ! अत्याश्चर्यमजनि, यद् भगवान् अशेषविद्भूत्वापि लेखनशालामायिवान् । नूनमेतत् सहकारतरौ तोरणबन्धनमिव, पीयूषत्य मधुरीकरणमिव, सरस्वत्याः पुस्तकदर्शनमिव, मातुर मातुलवर्णनमिव । अध्ययनमन्तरेणैव सर्वविदुषो विनापि मण्डनं सुमण्डितस्य द्रव्यं विनैव परमैश्वर्यसम्पन्नस्य वर्धमानस्य विद्याभ्यासकृते किलोपाध्यायसदनगमनमध्यजायत । सर्वभेतत् पिष्टपेषणमेव कुर्वाते भगवत्स्वरूपमजानन्तौ मातापितरौ। अतएव भगवदाशातना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org