________________
पञ्चमं व्याख्यानम् ।
(१११) भोगिनं तत्तरुमूले वीक्ष्य, सर्वे कुमारा अतित्रस्ताः पलायन्त । परन्तु निर्भीक एक एव प्रभुस्तत्रागत्य, सलीलं तं भोगिनं पाणिना गृहीत्वाऽतिदूरं निरक्षिपत् । ततः पुनः समागताः कुमाराः कन्दुकक्रीडनं मिथः प्रारेभिरे । तत्रैवं पणायाश्चक्रिरे-यत्पराजितो बालो निजस्कन्धे जेतारं संस्थाप्य, दूरं धावेत्, इत्थं क्रीडद्भिः कुमारैः सत्रा स सुरोऽपि तैः सह रन्तुं लग्नः । क्षणादेव भगवता क्रीडता पराजितो देवः । अतएव स भगवन्तं निजस्कन्धेोपरि निधाय, तद्भापनाय सप्ततालतरुप्रमाणोऽभवत् । श्रीवीरोऽपि तस्य दुर्मतेर्भावं विज्ञाय, वज्रसमया मुष्ट्या तत्पृष्ठं जघान, तेन परिपीडितः सुरः शक्रोक्तिं प्रमायमाणो मशक इव सङ्कोचं प्राप । ततः प्रत्यक्षीभूय, सकलं यथाजातं निवेद्य, पौनःपुन्येन स्वापराधं क्षमयन् , विभुमेवं वभाषे स सुरः-"प्रभो ! यथा शक्रेन्द्रस्त्वदुदारगुणगणान् सदसि व्याजहार, तथैव सकलास्त्वयि दृश्यन्ते । त्रिजगत्यां त्वमिवाऽपरः कोऽपि बलीयान्नैव विद्यते । शकेन्द्रोऽपि स्वयं तत्रागत्य, भगवच्चरणारविन्दयोरभिवन्द्य, शैशवेऽप्यमितं पराक्रममवलोक्य, मोमुद्यमानः ' श्रीवीर ' इति भगवतो नाम धृतवान् । ४० भगवतो लेखनशालागमनं--
अथ भगवतो वीरस्य यदाऽष्टमोऽब्दः प्रावृतत्, तदा विज्ञतमौ, प्रेम
१ वर्धमान जब वर्ष अष्ठ की आयु को पर्याप्त थे,
मोहवश हो पिता माता फिक्र में परिव्याप्त थे । विना शिक्षा श्रेय नाही जगत् में रीति यही,
अतः अब इन प्रिय कुमर को विद्वान् करना सही ॥१॥ नीति-शास्त्र में कथन सच्चा वर्ष पंच पर्यन्त है,
लाड-गोड़ की सीम दाखी फिर पढ़ने में तन्त है । पिता माता निज तनुज को अशिक्षित रखते कहीं,
शत्रु सदृश वे कहाते मूर्ख का आदर नहीं ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org