________________
(११०)
श्रीकल्पसूत्रार्थप्रबोधिनी. महतो महीयाञ्छ्रतवान् , मतिमान्, प्रथिताऽवधिमान्, पृथुपूर्वभवस्मृतिमान्नैरुज्यवान्नगाधबुद्धिचातुर्यसौन्दर्यशौर्योदार्यधैर्यादिगुणगणैर्जगदुत्कृष्टतमस्त्रिलोक्यां तिलकायमानो बभूवान् ! ३९ भगवतो बालक्रीडनं, समागतमायिकदेवजयश्च
अथैकदाऽष्टवर्षीयान्भगवान् कौतुकोज्झितोऽपि निजवयस्यराजकु. मारैः सह, तद्देशीयातिप्रसिद्धाऽऽमलकीक्रीडां चिकीर्षुर्नगराबहिरगमत् । तत्रैकस्य पिप्पलतरोरधस्तात्सर्वे भगवत्प्रमुखा राजकुमाराः संचस्क्रिरे । तत्रेयं पद्धतिः-यद् द्वौ द्वौ बालको सहैव धावेताम् , धावित्वा च यः प्रागेव तं पिप्पलतरं स्पृशेत् तस्य जयः । यश्च पश्चात्तिष्ठेरस हारितो भवति, हारितश्च निजस्कन्धे जेतारमारोप्य तत्रैव निर्धारितस्थाने धावनागच्छेत् । प्रभुर्यावद्राजपुत्रैः सह क्रीडन्नासीत्तावत्सौधर्मेन्द्रः सभासीनो वीरप्रभोरिव बलीयान् कोऽप्यन्यो नव दरीदृश्यते । बाल्येऽप्यबालपराक्रमममुं महावीरं शकादयोऽपि भापयितुं नैव कल्पेरन् । इत्याकर्ण्य कोऽपि मिथ्यादृष्टिदेवः शक्रभाषितमश्रद्दधानः स्वचेतस्येवमचिन्तयत्यदसौ प्रभुत्वाऽखर्वदर्पादेवमसमञ्जसं निरङ्कुश इव ब्रूते । एषोक्तिःपङ्गुना गिरिलङ्घनमिव मनागपि श्रद्धार्हा नो भवितुमर्हति । तदहमधुनैव तत्र गत्वा, तमधिकं वित्रास्य शक्रोदितमेतदलीकं करवाणि, इति निश्चित्य, मनुष्यलोकमागत्य, राजकुमाररूपं विकृत्य, भगवता सह रन्तुं लग्नः । तदा भगवाञ्जवेन धावित्वा, प्रागेव तं पिप्पलतरं करेण स्पृष्टवान् , गतवाँश्चाऽग्रे । तदा स सुर आत्ममायया भगवतो भोषणाय मुशलस्थूलललद्विजिह्वान् , महाभीमान् , फूत्कुर्वतः, शिरसि दीप्रमणिधरान्, भोगिनो विकुाऽऽमूलात्प्रतिशाखमवेष्टयत् । अतिभीषणं
व्यन्तराणाम् , ततो न्यूनं चक्रवर्तिनाम् । ततो वासुदेवे, ततो बलदेवे, तदल्पं माण्डलिकादौ भवत्युत्तरोत्तरं रूपतारतम्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org