SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पचमं व्याख्यानम् । ( १०९ ) 1 विपुलताम्बूल गन्धपुष्पमाल्यवसनालङ्कारादिना सत्कृत्यैत्रमवदताम् भोः स्वजनाः ! अमुष्मिन् दारके गर्भे समुत्यन्ने, वयं हिरण्येन, राया, राज्येन, धान्येन रूप्येण च ववृधिमहे । भूयसीमसीमामेव प्रवृद्धिमवलोक्य, प्रागेव निरचिन्वाव - यत्सति जन्मनि दारकस्य 'श्रीवर्द्धमान' इति शुभमन्वर्थं नाम धरिष्यावः । सोऽयं चिरकालिको मामको मनोरथोऽद्य साफल्यमैयः ( प्राप ) । अतोऽमुष्य कुमारस्य ' श्रीवर्द्धमान ' इति शुभाभिधानं प्रथताम् । भगवतो महावीरस्य त्रीण्यभिधानानि जज्ञिरे - मातापितृभ्यां दत्तं ' वर्द्धमान ' इति प्रथमम् । रागद्वेषादिराहित्यातपस्याक्लेशसहनशक्तियोगाच्च 'श्रमण ' इति द्वितीयम् । आकस्मिके विद्युदादिजे भये सिंहादिदुर्जीवजाते भैरवे च दुःखे यदसौ नो चलिष्यति, मनसि द्रढिमानमेव धरिष्यते परिषहिष्यते च द्वाविंशतिपरीषहान्, दिव्यादींश्चतुर्धा षोडशधा चोपसर्गान्, क्षमिष्यते च क्षमया नत्वशक्त्या । भविष्यति च भद्रादीनामेकरात्रिक्यादीनां वा प्रतिमानामवकः । अरतिरत्योः सत्योर्हर्षविषादौ नो भरिष्यति, कैवल्यज्ञानदर्शनवरश्रियं वरिष्यति, भविष्यतीदृशो भगवानतो देवेन्द्रा अमुष्य ' श्रमणो महावीर' इत्यन्वर्थं नाम तृतीयं चक्रिरे । द्वितीयाशशीव मन्दाराङ्कुर इव दिने दिने भगवान् वरीवृध्यमानः सम्पूर्ण पीयूषमयूखमुखः, गजराजगतिकः, बिम्बफलोष्ठपुटः सितोज्ज्वलद्विजपङ्क्तिः, भ्रमरश्यामलकचकलापः, अम्बुजमञ्जुकरः, सुरभिश्वसितः, प्रभयोल्लसितः, फुल्लारविन्ददलायताक्षः, मारविजित्वररूपश्रिया जुष्टः । किमधिकं सर्वेषां कान्तिमतां सुराणामेकत्रीकृतोऽपि रूपो भगवद्वामचरणाङ्गुष्ठस्य षोडशीमपि कलामाप्तुं नाऽर्हति । ईदृशो भगवान् १ प्रभोस्तीर्थङ्करादल्पं रूपं गणधरस्य, ततोऽल्पमाहारकशरीरवतां साधूनाम्, तेभ्योऽल्पमनुत्तरवैमानिकदेवानाम्, अमीभ्योऽल्पं नवप्रैवेयकदेवानाम् इत्थं द्वादशैकादशादिप्रथमदेवलोकं यावदुत्तरोत्तरं रूपाल्पत्वम्, ततो न्यूनं ज्योतिष्कदेवानाम्, ततो भवनपतीनाम्, ततो " Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy