________________
पचमं व्याख्यानम् ।
णानि बन्धयत । उपर्यधो लग्नविस्तीर्णातिवर्त्तुलप्रलम्बमानकुसुमदामकलापविभूषितं प्रतिवेश्मद्वारं प्रतिराजपथञ्च कारयत । पञ्चवर्णान् सौरभ्यभरान् कुसुमपुञ्जान् सर्वत्र विकिरत । दन्दह्यमान दश!ङ्गादिधूपैः सर्वत्र मघमघयत । अन्यैरपि सुगन्धिद्रव्यैः प्रतिमार्गचतुष्पथादि व्यामोदयत । नर्त्तकान्नर्त्तयत, वस्त्राखेलकान् खेलयत, मल्लैर्मल्लान्मिथो योधयत, मौष्टिकैर्मुष्टियुद्धं कारयध्वम्, सत्कथकान् कथाः कथयत, सूक्तिपाठकान् पाठयत, लासकैरासलीलां प्रवर्त्तयत, आरक्षकभटैरसिलीलां वितानयत, लंस्खैवंशाग्रखेलनं विस्तारयत, गौरीपुत्रभिक्षुभि चित्रपटान् सर्वत्र दर्शयत, मार्दङ्गिक-पाणविक - वैणविक - दौन्दुभिकप्रमुखैर शेषैरभिज्ञैर्वाद कैस्ततादिचतुर्विधानि च वाद्यानि वादयध्वम् ततस्तेऽपि प्रमुदिताः सन्तः कृताञ्जलयः क्षितिपतेरादेशं शिरसा धृत्वा, शीघ्रमेव नृपोदितं कृत्वा सर्वमकाष्र्मेति नरनाथं व्यजिज्ञपत् ।
Jain Education International
( १०३ )
ततः सिद्धार्थभूपतिः कृतभूरिश्रमश्चिरपरिमर्दितसर्वाङ्गलक्षपाकादिसुरभितैलः, स्नातानुलिप्तः, परिहिताऽशेष कौशेयवसनसद्रत्नभासुरविभूषणपटलः, प्रभयाऽतुलया भास्वानित्र देदीप्यमानः, समस्तबलपरिवृतः, सर्वर्द्धिसमाकलितः समस्तवादित्रादिखमुखरीकृताऽऽशापटलः, सकलात्मीयपरिजनानुगतो दशाहं यावत् स्थितिपतिकां प्रावर्त्तयत्सर्वत्र नगर्याम् । तथाहि-- प्रत्यापणीयक्रयविक्रयादे राजकीयं करमजहात् । प्रत्याब्दिकं राजग्राह्यं गोमहिषवृषभादीनामपि करं दशाह मौज्झत् । सर्वेषां लोकानां यानि यानि खाद्यपेयादीनि तानि सर्वाणि हट्टात्प्रदापितानि 'मूल्यन्तु स्वकोशाद दापयत् । दशदिवसास्तेऽपि हट्टीयाः पुरुषा नृपादेशादतोलयित्वैव दातुं लग्नाः सर्वेषां सर्वाणि । केऽपि राजकीयाः पुरुषाः कस्यचिदपि सद्मनि किञ्चिदपि बलादादातुं मा व्रजन्तु' इत्युचैराघोषयामास । सर्वापणेषु दाशाहिकायामेतस्यां क्रयविक्रयसतोलनप्रदानानि निवारयामास । स्वग्राह्यमृणं करं वा हित्वा परग्राह्यं परेषा
6
For Private & Personal Use Only
www.jainelibrary.org