________________
(१०४)
श्रीकल्पसूत्रार्थप्रबोधिनी. मृणं स्वकोषाद्दापयित्वा सर्वे लोका अनृणिनश्चक्रिरे । एतत्सर्वयथावत्कारका महीयांसः पुमांसो नियुक्ताः । शतसहस्रलक्षदीनारव्ययसाध्या भगवदह प्रतिमार्चा अकरोत्कारितवाँश्चाऽन्यैरपि । अष्टमीचतुर्दश्योः पौषधकारिणां श्राद्धानां भक्तिवात्सल्यविधित्सया भूरिधनानि पृथक् स्थापितवान् । अन्यान्यपि धर्मकृत्यानि विविधानि सोऽकरोदन्यैश्चाऽचीकरत् । पर्वदिनादौ च बहुविधानि दानानि कुर्वन् कारयल्लोकैरुपहृतं शतं सहस्र लक्षं गृह्णन् ग्राहयश्चाऽनुचरैस्तावन्मानं ददद्दापयश्च सिद्धार्थो राजा दशदिनानि महोत्सवमयानि चक्रिवान् । तत्र प्रथमे दिवसे भगवतो मातापितरौ स्थितिपतितां व्यधाताम् । तृतीयदिवसे चन्द्रसूर्ययोदर्शनमचीकरताम् । विधिश्चेत्थम्-जन्मदिवसाद् दिनद्वयेऽतीते गृहमेधी विद्वान् अर्हत्प्रतिमाऽग्रे राजतीञ्चन्द्रमूर्ति प्रतिष्ठाप्य विधिवदभ्यर्च्य स्नातां परिहितवसनाऽऽभरणां ससुतां मातरं चन्द्राऽभिमुखमुपावेश्य “ ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, नक्षत्रपतिरसि, सुधाकरोऽसि, औषधीगर्भोऽसि, अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा” इति चन्द्रमसो मन्त्रमुच्चारयन् पुत्रस्य चन्द्रं दर्शयेत् । ततो माता ससुता गुरुं प्रणमेत्तदा गुरुस्तस्या एवमाशीर्वादं दद्यात्-" सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥" यदि तत्र दिने कृष्णचतुर्दशी, अमावास्या, मेघादिना पिहितश्चन्द्रो वा स्यात्तथापि मूर्तिस्थापनाऽर्चनादिविधिनैव तत्प्रतिबिम्बं दर्शयेत् । ततस्तस्या एव यामिन्याः प्रभाते समुदिते च सूर्ये कुलगुरुः स्नातानुलिप्तः कृतबलिकर्मा सौवर्णी ताम्रमयी वा सूर्यमूर्ति जिनेशप्रतिमाये संस्थाप्य, विधिवदभ्यर्च्य सपुत्रां प्रसूं तत्रोपावेश्य " ॐ अहं सूर्योऽसि, दिनकरोऽसि, तमोऽपहोऽसि, सहस्रकिरणोऽसि, जगञ्चक्षुरसि, प्रसीदाऽस्य कुलस्य तुष्टिं, पुष्टिं, मोदं, कुरु कुरु स्वाहा " अमुं मन्त्रं पठित्वाऽभ्युदितं सूर्य दर्शयेत् । ततो माता सव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org