SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) श्री कल्पसूत्रार्थ प्रबोधिनी. 'सर्वे देवी देवा ! मद्वाक्यं शृणुत, यः कोऽपि देवो वा दानवो वा प्रभोस्तन्मातुर्वाऽशुभं चिन्तयिष्यति, तच्छिरोऽमुनैव वज्रेण सप्तधाऽर्जुनतरुमञ्जरीमिव स्फोटयिष्यामि । ततः प्रभोरङ्गुष्ठे पीयूषं सञ्चार्य नन्दीश्वरद्वीपे समागत्याऽष्टाह्निकं महामहं विधाय, सर्वे देवा निजनिजस्थानमगच्छन् । तस्यामेव रजन्यां सिद्धार्थभूपस्य सद्मनि कुबेरानुचरास्ति ' जृम्भका देवा हिरण्यानाम्, रजतानाम्, सद्रत्नानाम्, वस्त्राणाम् भूषणानाम्, नागवल्ली प्रमुखपत्राणाम्, कुसुमानाम्, श्रीफलादिविविधफलानाम्, शालिगोधूमाद्यन्नानाम्, स्रजाम् कोष्ठपुटादिगन्धानाम्, वासयोग्यचूर्णानाम्, हिङ्गुलादिवर्णानाम् वसुधाराणाञ्च वृष्टिं विदधिरे । " ३७ सिद्धार्थस्य राज्ञः पुत्रजन्मोत्सवकरणम् – अथ प्रियम्बदा नाम्नी दासी राजानं सिद्धार्थं पुत्रजननमुदन्तं तूर्णं निवेदयाञ्चक्रे । तदाकर्ण्य प्रमोदभरमेदुरो भूपतिः पुलकाञ्चितगात्रो भवंस्तस्यै किरीटं छत्रञ्च मुक्त्वा सर्वालङ्गतिं समर्प्य, पुत्रपौत्राद्यनेककुलभोग्यां वृत्तिञ्च प्रदाय, तदीयं दास्यत्वमपागमयत् । ततः प्रभाते राजा नगरगोप्तृन् आकार्याऽऽदिशत् - भोः ! कारागारात्तूर्णं बन्दिगणं मुञ्चत, मानोन्माने च वर्धयत । किञ्चाऽमुष्मिन्नगरे सर्वत्रान्तर्बहिश्च राजपथादौ नीरजीकृत्य सुगन्धोदकान्यभिषिञ्चत । ये च पन्थान उच्चाक्वास्तानपि समीकृत्य सुमण्डयत । महोत्सवाऽवलोकनायागताया जनताया उपवेशनाय मञ्चकातिमञ्चकान् प्रतिमार्गमुभयतः स्थापयत । सिंहव्याघ्रादिविचित्रचित्रचित्रितान्महाध्वजान् विदधीध्वम् । प्रतिपथं भूमीर्विलिम्पत । सेढिकादिभिः कुड्यादि विलेपयत । गोशीर्षसरसरक्तचन्दनदर्दरगिरिसमुद्भूतचन्दनैः पञ्चाङ्गुलितलाङ्कनं कुड्यादौ दापयत । प्रतिसदनं चन्दनकलशान् संस्थापयत । प्रतिद्वारं कमनीयतमानि तोर - 1 १ - पञ्चदशमासपर्यन्तं रत्नकोटित्रयीं ववर्षेत्यपि लेखो कचिद् दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy