________________
पञ्चमं व्याख्यानम् |
( १०१ )
अथैवं संभृतोपकरणा अच्युतेन्द्रादयो द्वाषष्ट्या ( ६२ ), चन्द्रसूर्यौ द्वात्रिंशदधिकशतेन ( १३२), सामानिक एकेन ( १ ), त्रायस्त्रिंशास्त्रयस्त्रिंशद्भिः (३३), पार्षद्यास्त्रिभिः ( ३ ), आत्मरक्षका एकेन ( १ ), लोकपालाश्चतुर्भिः ( ४ ), अनीकाधिपाः सप्तभिः ( ७ ), प्रकीर्णक एकेन ( १ ), इन्द्राण्यः पञ्चभिः ( ५ ), आभियोगिक एकेन ( १ ); इत्थं सार्धशतद्वयाभिषेकैः : ( २५० ) प्राग् भगवन्तं यथाक्रमं स्नपयाञ्चकुः । तत्र श्रीमज्जिनाभिषेचने प्रमोदमानाऽशेषसुरवृन्दोत्क्षिप्तप्रागुक्तकुम्भौघगर्भादधःपतन्ती क्षीरसागरनीरधारा जिनपतेर्मूर्धनि श्वेतातपत्रायमाणा, वदनाब्जे शशधरकरनिकरायमाणा, अधिग्रीवं स्फारसारहारायमाणा, वपुषि चेतरस्मिँश्चीनचोलायमाना भृशमशोभत । तदनु पञ्चधाभूयैको भगवन्तमुत्सङ्गे द्वौ चामरे तुर्यश्छत्रम्पञ्चमो दम्भोलिं विभ्राण ईशानेन्द्रः शक्रस्थाने निषसाद । ततो धृतचतुर्वृषभरूपः सौधर्मेन्द्र ईशानेन्द्रकोडस्थितं चरमविभुं वसुभृङ्गविनिर्गच्छदच्छचीरनीरैः स्वयमभ्यषिञ्चत् । इत्थं ये देवाश्चरमजिनपतिं स्नपयन्तो नैर्मल्यमापेदिरे, तएव देवा ध्रुवं वैबुध्यमापुः । ततो मङ्गलदीपं नीराजनञ्च विधाय नृत्यगीतवाद्यादिविविधमुत्सवं ते व्यतन्वन् । पश्चाद्धरिः काषाय्या प्रभारङ्गानि समुन्मृज्य, गोशीर्षचन्दनाद्यैर्विलिप्य, दिव्यकुसुमाद्यैरभ्यर्च्य विभोर १ दर्पण२ वर्धमान - ३ कलश-४ मीनयुग्म - ५ श्रीवत्स - ६ स्वस्तिक - ७ नन्दावर्त्त - ८ भद्रासनानि, इत्यष्टमङ्गलानि रत्नपट्ट के रूप्यतन्दुलैरा लिख्य परया भक्त्या ' नमोऽत्थु ते सिद्ध बुद्ध णीरय समण गीरागदोस निम्मम धम्मवरचाउरंतचक्कवहि नमोऽत्थु ते ' इति संस्तुत्य । जिनेश्वरमानीय मातुरन्तिके विमुच्य, भगवतः प्रतिकृतिमवस्वापिनीञ्चापहृत्य, कुण्डलयुगले चौमयुगले चोपधानद्वर्याश्च तत्र निधाय, श्रीदामरत्नदाम्नी, उल्लोचे कनकमय कन्दुकमित्यादि भगवद्रमणयोग्यविविधोपकरणानि स्थापयित्वा, रत्नस्वर्णरूप्याणां द्वात्रिंशत्कोटिमभिवृष्य तत्र वाढमेव माघोषयामास
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org