________________
(१००)
श्रीकल्पसूत्रार्थप्रबोधिनी. योजनमानाऽऽननाः, पञ्चविंशतियोजनोन्नता द्वादशयोजनविस्तीर्णा योजनैकमितनालका एते च प्रत्येकमष्टगुणितोश्चतुष्षष्टिसहस्रसंख्या. वन्तो जातास्तैः सर्वैः सार्धशतद्वयवाराऽभिषेककरणेन षष्ठिलक्षाधिकैकाकोटिरभिषेका बभूवुः। एवं भृङ्गाराऽऽदर्शरत्नकरण्डक-सुप्रतिष्ठकस्थाल-पात्र-पुष्पचङ्गेरिकाप्रभृतिपूजोपकरणानि प्रत्येकमष्टोत्तरसहस्राणि, मागधादितीर्थमृदो गङ्गादीनां जलानि, पद्मइदादीनां पद्मानि, क्षुल्लहिमववर्षधरादिपर्वतेभ्यः सर्वोषधीश्चाऽच्युतेन्द्र आभियोगिकदेवैरनीनयत् । तदवसरे जातमात्रोऽसौ भगवानेतावत्कलशस्नपनं कदाचिन्नसहेत ?, मदुत्सङ्गान्निवहेद्वेति मनसि शङ्कमानः शक आशु भवाम्बुधितितीर्षया करघृतकुम्भान् , सिञ्चतो वा भावविटपिनम् , जहतो वा निजदुरितचयम् , धर्मचैत्ये स्थापयतो वा कलशानिव प्रभुमभिषेक्तुं त्वरमाणानपि तान् देवान् देवीश्च नाऽऽदिदेश । तदाऽवधिना शकशङ्कां जानानोऽहतोऽतुलां शक्तिं दर्शयितुं भगवानिजवामचरणाङ्गुष्ठसंपर्कादमरगिरि सकलमचीचलत्तमाम् । तस्मिन् कम्पमाने सकलोर्वी कम्पमवाप । तस्य नगराजस्य शिखराणि सहसैव निपेतुः, सागराश्च चुक्षुभिरे, ब्रह्माण्डस्फोटशब्दाऽद्वैतमयञ्जगदजायत । ततोऽतिरुष्टः शक्रेन्द्रोऽवधिना भागवतीमेव लीलामवगत्य प्रभुं नाम नामं निजमज्ञानजं मन्तुं क्षमयनेवमस्तावीत्सुनो वीर्यबोलुं विशालो विबुधो !, नरा वार योधे मली एक गोधो। दशे गोधले लेखवो एक घोडो, तुरंगेण वारे मली एक पाडो ॥१॥ दसे-पंच भैंसे मदोन्मत्त नागो, गजे पांचसो केसरी वीर्य तागो । हरी वीससो वीर्य अष्टापदेको, दसे लक्ष अष्टापदे राम एको ॥२॥ भला रामयुग्मे समो वासुदेवो, उभे वासुदेवे गणी चक्री लेवो । भला लक्षचक्री समो नाग सूरो, वली कोटी नागाधिपे इन्द्र पूरी ॥३॥ अनन्ते सुइन्द्रे मली वीर्य जेतूं, टची अङ्गुलीमां प्रभु वीर्य तेतूं । नमो वीर अर्हन् ! सदा भूत भव्य, भविष्यत्सुरेन्द्रातिवीर्यातिसव्य ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org