________________
पञ्चमं व्याख्यानम् ।
(88) न्मामकः केसरी किलौद्धत्याद्धनिष्यति । महिषारोहिणस्तुरगारोहिणम् , ता_गादेवा अहिगामिनम् , छागासीनं चित्रकारूढो मिथो जजल्पुः । केचिदूचिरे-भ्रातः ! मां विहाय जवेन मागाः, क्षणं मामपि प्रतीक्षस्व ।' ये दक्षा बलीयांसश्चाऽऽसँस्तेऽतिशीघ्रमग्रतश्चेलुः, सखीनपि तत्यजुः। कियन्तश्चैवमवोचन्त-यद्, भो देवाः ! मौनमाधाय व्रजत, यतः पर्वदिने विपुलोऽपि पन्थाः सङ्कीर्णो भवत्येव। एवं खेऽटतां लेखानां शिरःसु पतितैश्चन्द्रमसः करप्रकरैः सकला निर्जराः सजरा इवाऽलक्ष्यन्त । इत्थमूर्ध्वलोकादधोऽवतरतां तारका मार्गमागतानां तेषां मूर्धसु संलग्ना राजताः कलशा इवाऽधिग्रीवं ग्रैवेयका इव, गात्रेषु संसृष्टास्तारकाः स्वेदविन्दव इव बभुस्तमाम् । अथ शकेन्द्रः सपरिवारस्तत्राऽष्टमे नन्दीश्वरद्वीपे रतिकरगिरौ समागत्य, संक्षिप्तविमानः श्रीमत्प्रभुजन्मसदनमागत्य जिनेन्द्रं जिनजननीच त्रिःपरिक्रम्य प्रणम्य चाऽब्रवीत्-विश्ववन्ये ! रत्नकुक्षिधरे ! आद्यकल्पादिहागतः शक्रेन्द्रोऽहं त्वां प्रणमामि । अमुष्य चरमजिनजातस्य जननमहामहं विधास्ये । अतो मनागपि मनसि भीति भागाः, इति व्याहृत्यावस्वापिनीं निद्रां वितत्य, तत्पाबें भगवत्प्रतिबिम्ब निधाय, पञ्चधा भूत्वा चैकः प्रभु जग्राह, द्वौ चामरे जगृहाते, तुरीय आतपत्रमादब्रे, पञ्चमो वजं बिभराञ्चकार । तत्राग्रगन्ता पृष्ठयायिनं, पृष्ठगन्ता चाऽग्रयायिनं भृशं प्रशंसन् सुमेरुगिरिशिखरोपरि समागत्य, मेरुचुलातो दक्षिणेनाऽतिपाण्डुकम्बलशिलातलीय. शाश्वतसिंहासनोपरि भगवन्तमुत्सङ्गे निधाय प्राङ्मुखो निषसाद । एवमीशानेन्द्रादयोऽपि स्वस्वदेवरचितविमानमधिरुह्य सपरिवारास्तत्राऽऽगताः स्वस्वोचितस्थाने समालत । ततो जाम्बूनदमयाः, रूप्यमयाः, रत्नमयाः, स्वर्णरूप्यमयाः, स्वर्णरत्नमयाः, रूप्यरत्नमयाः, स्वर्णरूप्यरत्नमयाः, मृण्मया इत्यष्टजातीयाः कलशाः प्रत्येकमष्टेसहस्रसंख्यावन्तो
(१) वैमानिकेन्द्राः १०, भवनपतीन्द्राः २०, व्यन्तरेन्द्राः ३२, द्वौ ज्योतिकेन्द्राविति चतुष्पष्टोन्द्राः। (२) उपदेशप्रासादीये १४ स्तम्भे अष्टोत्तरसहस्रकलशाऽऽख्यान
मप्यकारि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org