________________
(६८)
श्रीकल्पसूत्रार्थप्रबोधिनी. र्थपतेर्जन्म विदित्वा, सौधर्मेन्द्रः द्वादशयोजनपरिमण्डलां, षड्योजनोच्चां, चतुर्योजनप्रमाणकेन, योजनमात्रेण वा नालकेन सुमण्डितां, सुघोषाभिधां घण्टां सपञ्चशताऽमरेण हरिणैगमेषिणा देवेन वादयामास । एवमितरेऽपीन्द्राः स्वस्वदेवलोके निजसेन्यान्या घण्टामवीवदन्। तन्नादश्रुत्या शेषा अपि वैमानिका घण्टा नेदुरुच्चैस्तराम् । ततो हरिणैगमेषी देवः शाक्रमादेशं सर्वान्निलिम्पानवेदयत् , तेन प्रमोदमेदुराः सुराश्चलनायौत्सुक्यं बिभरामासुः । यथा-त्रिदशाऽधिपतिः पालकाऽमरकृतं लक्षयोजनप्रमाणं पालकनामकं विमानमारुरोह । तत्रेन्द्रसिंहासनाऽग्रे तस्याष्टाऽग्रमहिष्यस्तावन्ति भद्रासनानि समलञ्चक्रुः। तद्वामभागे चतुरशीतिसहस्रसामानिका देवाः स्वोचितभद्रासनेषूपाविशन् । इन्द्रासनादक्षिणे तिस्रः परिषदो न्यषीदन्, तत्राऽऽभ्यन्तरपरिषद् द्वादशसहस्रप्रमाणा, चतुर्दशसहलप्रमाणा मध्यमा समज्या, षोडशसहस्रप्रमाणा बाह्यपरिषत्, तिसृणामैक्ये द्विचत्वारिंशत्सहस्रदेवा भद्रासनाऽऽसीना आसन् । तत्पृष्ठे सप्तानीकपतयः, चतुर्दिक्षु चैकैकस्यां चतुरशीतिसहस्राऽऽत्मरक्षका देवाश्च भद्रासनान्यारुरुहुः । इत्थमितरैरपि भूयिष्ठैरमरैः परिवृतो जेगीयमानगुणगणः स सौधर्मेन्द्रश्चचाल । तदनु कियन्तो निर्जरा इन्द्रशासनात्, परे मित्राग्रहात्, केचन निजप्रेयसीनां नोदनात्कोचन्निजसमुत्साहवशात् , केचनकौतुकादितरे विस्मयात् , केऽपि परया भक्त्या विविधवाहना भूयांसो विबुधाश्चेलुः । तत्राऽवसरे विविधवाद्यनिनदैर्घण्टास्वैः सुराणां कोलाहलेन च शब्दाऽद्वैतमयमभूदिदं जगत् ।
तदा सिंहारूढा गजारोहिण ऊचिरे-यदात्मीयं गजं दूर नयत, नोचे
१ भवनपतीन्द्राणामोघस्वरा-महौघस्वरा-मेघस्वरा-हंसस्वरा-कौश्चस्वरा--मञ्जुस्वरामजुघोषा-सुस्वरा-मधुस्वरा-नन्दिस्वरा-नन्दिघोषाद्या घण्टा ज्ञेयाः ।, याम्यव्यन्तरेन्द्राणां मञ्जुस्वरा, औदीच्यानान्तु मजुघोषा, ज्योतिष्केषु चन्द्रस्य सुस्वरा, सूर्यस्य सुस्वरनिघोषा घंटा ज्ञेयाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org