________________
पञ्चमं व्याख्यानम् ।
(६७) हीः ८, एता अष्टकुमार्य उत्तररुचकादायाताश्चामराणि वीजयन्ति । चित्रा १, चित्रकनका २, शतोरा ३, वसुदामिनी ४, एताश्चतस्रो दिक्कु. मारिका विदिशः समागता दीपकहस्तास्तत्र तिष्ठन्ति । रुचकद्वीपादभ्यागता रूपा १, रूपासिका २, सुरूपा ३, रूपकावती ४, नाम्न्यश्चतस्रो दिक्कुमार्यः प्रभोश्चतुरङ्गुलं हित्वा नालं छिन्दन्ति । तच्च दूरे गर्त खनित्वा, तत्र निक्षिप्य पुनरापूर्य, तदुपरि वैदूर्यमयं पीठं चतुरस्रं विरचयन्ति । अथ सूतिकागारात्प्राच्यां दक्षिणस्यामुत्तरस्याञ्च दिशि रम्भास्तम्भमयानि त्रीणि गृहाणि निर्ममिरे । तत्र याम्यकदलीगृहे नीत्वा, विरचितसिंहासनोपरि भगवन्तं तन्मातरञ्चोपावेश्य, तयोरङ्गे सुरभितैलं मर्दयामासुस्ताः । ततः प्राच्यरम्भागृहे समानीय सिंहासनाऽऽसीनौ तौ विधाय विधिवत्सुनप्य चीनांशुकाभरणसुरभिविलेपनादिना विभूषयामासुः । ततस्ताः समातृकं प्रभुमौदीच्ये कदलीगृहे समानीय, सिंहासनो. परि निधायाऽरणिकाष्टोत्पादितेऽग्नौ सुचन्दनेन्धनानि हुत्वा द्वयोः करे रक्षापोहलिकामवध्नन् ' भगवन् ! पर्वताऽऽयुर्भव' इत्याशिषं दत्त्वा मणिमये द्वे गोलके चोच्छाल्य प्रभो रमणाय दिव्यमेकमान्दोलनपल्यकं बध्वा, जन्मस्थानं नीत्वा, ताः सकला दिक्कुमार्यो दिक्षुस्थिता अतिमधुरं गायन्ति स्म । एतासामेकैकस्याश्चतस्रो महत्तरदेव्यः सन्ति । चतुःसहस्रं सामानिका देवा भवन्ति, अङ्गरक्षकाश्च षोडशसहस्रं विद्यन्ते । वर्तन्ते च सप्तचमूपतयः, अन्येऽपि महर्द्धिकाः सुरा लसन्ति । एतासामायुश्चैकं पल्योपमं भवति । इत्थं परिवारयुतास्ता योजनप्रमाणविमाने समुपविश्य, श्रीमद्भगवजन्ममहोत्सवविधित्सया यथाऽsगुस्तथा तन्महं विधाय खखस्थानं प्रययुः। ३६ इन्द्रकृतजन्मोत्सवस्तन्मनाशङ्कापनोदश्च--
अथ शक्रसिंहासनेऽचलेऽपि कम्पायमानेऽवधिप्रयोगेण चरमती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org