SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रार्थप्रबोधिनी. अथ पञ्चमं व्याख्यानं प्रारभ्यते । ३५ दिक्कुमारीकृतवीरजन्मोत्सवः-- भगवत्यवतीर्णे सकला अचेतना अपि दिशः प्रमोदमेदुरा इव प्रसेदुः । वाता अपि सर्वेषां सुखदा मन्दम्मन्दं वान्ति स्म । त्रिजगती खलूद्योतमयी जाता। दिवि दध्वान च दुन्दुभिः । नारका अपि जीवाः प्रामोदन्त । सागराम्बरापि समुल्ललास । षट्पञ्चाशदिक्कुमारीणामासनान्येजाश्चक्रिरे, तेन च ता अवधिप्रयोगाद् भगवतो जननमवगत्य तस्यामेव रजन्यां शाश्वतिकं स्वाचारं प्रकुर्वते । प्रथममधोलोकवासि. न्यो भोगङ्करा १, भोगवती २, सुभगा ३, भोगशालिनी ४. सुवत्सा ५, वत्समित्रा ६, पुष्पमाला ७, अनिन्दिता ८, नाम्न्योऽष्टौ दिक्कुमार्यस्तत्र सूतिकावेश्मनि समागत्य प्रभुं मात्रा सत्राऽभिवन्द्येशानकोणे सूतिगृह विदधिरे, अशोधयंश्च योजनप्रमितां भूमिम् । पश्चान्मेघङ्करा १, मेघवती २, सुमेघा ३, मेघमालिनी ४, तोयधारा ५, विचित्रा ६, वारिषेणा ७, बलाहका ८, इत्यष्टावूर्वलोकात्तत्राऽऽगताः कुमार्यः समातृकं भगवन्तं प्रणम्य सुरभिजलकुसुमौघवृष्टिं व्यतन्वत । ततो नन्दा १, नन्दोत्तरा २, आनन्दा ३, नन्दिवर्द्धना ४, विजया ५, वैजयन्ती ६, जयन्ती ७, अपराजिता ८, एता अष्टौ पूर्वरुचकादागत्याऽग्रे विलोकनार्थमादर्श ध्रियन्ते। समाहारा १, सुप्रदत्ता २, सुप्रबुद्धा ३, यशोधरा ४, लक्ष्मीवती ५, शेषवती ६, चित्रगुप्ता ७, वसुन्धरा ८, इमा अष्ट दिक्कुमार्यो दक्षिणरुचकादुपेताः स्नानाय पूर्णकुम्भान् करे दधाना गीतं गायन्ति । इलादेवी १, सुरादेवी २, पृथिवी ३, पद्मावती ४, एकनासा ५, नवमिका ६, भद्रा ७, शीता ८, इत्यअष्टदिक्कुमारिकाः पश्चिमरुचकादागत्य संवीजनाय व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा १, मितकेशी २, पुण्डरीका ३, वारुणी ४, हासा ५, सर्वप्रभा ६, श्रीः ७, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy